________________
४३०
प्रमेयकमलमार्तण्डे
[३. परोक्षपरि०
किञ्च, सङ्केतः पुरुषाश्रयः, स चातीन्द्रियार्थज्ञानविकलतयान्यथापि वेदे सङ्केतं कुर्यादिति कथं न मिथ्यात्वलक्षणमस्याप्रामाण्यम् ?
किञ्च, असौ नित्यसम्बन्धवशादेकार्थनियतः, अनेकार्थ५नियतो वा स्यात् ? एकार्थनियतश्चेत्किमेकदेशेन, सर्वात्मना
वा? सर्वात्मनैकार्थ नियमे अर्थान्तरे वेदात्प्रतिपत्तिर्न स्यात्, ततश्चास्याज्ञानलक्षणमप्रामाण्यम् । एकदेशेन चेत् । स किमेकदेशोऽभिमतैकार्थनियतः, अनभिमतैकार्थनियतो वा? अनभिमतैकार्थनियतश्चेत् ; कथं न मिथ्यात्वलक्षणमप्रामाण्यम् ? अभि१० मतैकार्थ नियतश्चेत्किं पुरुषात् , स्वभावाद्वा ? प्रथमपक्षे अपौरुषे
यत्वसमर्थनप्रयासो व्यर्थः । पुरुषो हि रागाद्यन्धत्वात्प्रतिक्षिप्यते, तस्माच्चेद्वेदैकदेशोऽर्थनियमं प्रतिपद्यते, किमपौरुषेयत्वेन ? अँनेकार्थनियमे च विरुद्धोप्यर्थः सम्भवेत् , तथा चास्यै मिथ्यात्वम् । २५ किञ्च, असौ सम्बन्ध ऐन्द्रियः, अतीन्द्रियः, अनुमानगम्यो वा स्यात् ? न तावदैन्द्रियः; स्वेन्द्रिये खेन रूपेणाप्रतिभासमानत्वात् । अतीन्द्रियश्चेत्, कथं प्रतिपत्त्यङ्गं ज्ञापस्य निश्चयापेक्षणात् ? सन्निधिमात्रेण ज्ञापनेऽतिप्रसङ्गात्। ' अनुमानगम्यश्चेत् ;न; लिङ्गाभावात् । तस्य हि लिङ्गं ज्ञानम् , २० अर्थः, शब्दो वा? न तावज्ज्ञानम् ; सम्बन्धासिद्धी तत्कार्यत्वेनास्याऽनिश्चयात् । नाप्यर्थः; तस्य तेन सम्बन्धासिद्धेः । न हि सम्बन्धार्थयोस्तादात्म्यम् । सम्बन्धस्यानित्यत्वानुषङ्गात् । नापि तेंदुत्पत्तिः, अनभ्युपगमात् । असम्बद्धश्चार्थः कथं सम्बन्धं ज्ञाप
यत्यतिप्रसङ्गात् ? ज्ञापने वा शब्दा एवं सम्बन्धविकलाः किमर्थ २५न ज्ञापयन्त्यलं सिद्धोपस्थायिना नित्यसम्बन्धेन ? तन्नार्थोपि
१ सर्वस्वरूपेण । २ पुरुषाणाम् । ३ वेदेनार्थान्तरप्रतिपत्त्यभावात् । ४ मीमांसकस्य । ५ मीमांसकैः। ६ वेदस्य । ७ द्वितीयपक्षे । ८ वेदस्य । ९ इन्द्रियविषयः । १० श्रोत्रलोचनलक्षणे। ११ असाधारणरूपेण। १२ वाच्यवाचकसामर्थ्यस्यातीन्द्रियत्वात् । १३ सम्बन्धस्य । १४ नाज्ञातं ज्ञापकं नाम । १५ शब्दार्थयोः सारूप्येण सम्बन्धस्यार्थशापने। १६ सम्बन्धमात्रेण । १७ मीमांसकवत्सौगतानपि बोधयेदिति । १८ सम्बन्धेन सहाविनाभाविलिङ्गस्य । १९ सम्बन्धोस्ति ज्ञानात् । २० सम्बन्धासिद्धेरिति खपुस्तकीयः पाठः । २१ सम्बन्धोस्ति अर्थात् । २२ कथम् । २३ अन्यथा । २४ अर्थवत् । २५ सम्बन्धाद्गुणरूपादर्थोत्पत्तिः। २६ सम्बन्धेन सह । २७ तथा च खरविषाणं सम्बन्ध ज्ञापयतु । २८ असम्बद्धार्थेन । २९ सम्बन्धस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org