________________
४२८
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० सहजा खाभाविकी योग्यता शब्दार्थयोः प्रतिपाद्यप्रतिपादकशक्तिः ज्ञानशेययोऑप्यज्ञापकशक्तिवत् । न हि तत्राप्यतो योग्यतातोऽन्यः कार्यकारणभावादिः सम्बन्धोस्तीत्युक्तम् । तस्यां सत्यां । सङ्केतः । तद्वशाद्धि स्फुटं शब्दायो वस्तुप्रतिपत्तिहेतवः। ५ यथा मेर्वादयः सन्ति ॥ १०१॥
इति। ननु चासौ सहजयोग्यताऽनित्या, नित्या वा? न तावदनित्या; अनवस्थाप्रसङ्गात्-येन हि प्रसिद्धसम्बन्धेन 'अयम्' इत्यादिना
शब्देनाप्रसिद्धसम्बन्धस्य घटादेः शब्दस्य सम्बन्धः क्रियते १० तस्याप्यन्येन प्रसिद्धसम्बन्धेन सम्बन्धस्तस्याप्यन्येनेति । नित्यत्वे
चास्याः सिद्धं नित्यसम्बन्धाच्छब्दानां वस्तुप्रतिपत्तिहेतुत्वमिति मीमांसकोः; तेप्यतत्त्वज्ञाः; हस्तसंज्ञादिसम्बन्धवच्छब्दार्थसम्बन्धस्यानित्यत्वेप्यर्थप्रतिपत्तिहेतुत्वसम्भवात् । न खलु हस्तसंज्ञा
दीनां स्वार्थन सम्बन्धो नित्यः, तेषामनित्यत्वे तदाश्रितसम्बन्धस्य १५ नित्यत्वविरोधात् । न हि भित्तिव्यपाये तदाश्रितं चित्रं न व्यपै
तीत्यभिधातुं शक्यम्। - न चानित्यत्वेऽस्यार्थप्रतिपत्तिहेतुत्वं न दृष्टम् ; प्रत्यक्षविरो. धात् । एवं शब्दार्थसम्बन्धेप्येतद्वाच्यम्-स हि न तावदना. श्रितः; नभोवनाश्रितस्य सम्बन्धत्वाऽसम्भवात् । आश्रितश्चेतिक २० तदाश्रयो नित्यः, अनित्यो वा? नित्यश्चेत्, कोयं नित्यत्वे.
नाभिप्रेतस्तदाश्रयो नाम ? जातिः, व्यक्तिी? न तावजातिः, तस्याः शब्दार्थत्वे प्रवृत्याचेभावप्रतिपादैनात्, निराकरिष्य
१ न त्वौपाधिकी। २ वाच्यवाचकसामर्थ्यम्। ३ अपरः। ४ पूर्व प्रथमपरिच्छेदे । ५ अस्य शब्दस्यायमर्थः, अस्य गोशब्दस्य सानादिमानर्थ इति च । ६ प्रागुक्ताः । ७ आदिना हस्ताङ्गुलीसंज्ञाः। ८ उदाहरणे। ९ अन्थया। १० कथम् ? तथा हि। ११ अर्थेन सह । १२ इदमित्यादिना च। १३ यथा प्रसिद्धसम्बन्धेन घटशन्देन घट एव वाच्यस्तथाऽप्रसिद्धसम्बन्धेनापि घटशब्देन घट एव वाच्य इति । १४ शब्देन। १५ वदन्ति। १६ आदिना नयनाङ्गुल्यादिसंज्ञाः । १७ विनाशे। १८ विनश्यति । १९ वक्तुम् । २० अन्यथा । २१ प्रत्यक्षेण सिद्धा हवसंज्ञादयोऽनित्या यतः। २२ अनित्यहस्तसंशादिसम्बन्धस्यार्थप्रतिपत्तिप्रतिपादकृत्वप्रकारेण। २३ ताद्विः। २४ वक्ष्यमाणम् । २५ अन्यथा । २६ अमूर्तनभोवत् । २७ गगनस्य त्वर्थेन सम्बन्ध उपचारत एव, न तु साक्षात्तस्याऽमूर्तत्वात् । २८ दृष्टः । २९ सामान्यम्। ३० विशेषः। ३१ यदा सामान्यरूपौ शब्दार्थों सम्बन्धस्य वाच्यवाचकरूपस्याधारभूतौ तदा तावेव विषयीकुर्याच्छन्द इति भावः । ३२ आदिना निवृत्तिः। ३३ पूर्वम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org