________________
सू० ३३१००]. शब्दनित्यत्ववादः
४२७ त्वगग्राह्यत्वमन्ये च भागाः सूक्ष्माः प्रकल्पिताः। तेषामदृश्यमानानां कथं च रचनाक्रमः ॥२॥ कीदृशाद्रचनाभेदावर्णभेदश्च जायताम् । द्रवित्वेन विना चैषां संक्लेषः(संश्लेषः)कल्प्यते कथम् ॥३॥ आगच्छतां च विश्लेषो न भवेद्वायुना कथम् । लघवोऽवयवा होते निबद्धो न च केनचित् ॥४॥ वृक्षाद्यभिहतानां च विश्लेषो लोष्टवद्भवेत् । एकश्रोत्रप्रवेशे च नान्येषां स्यात्पुनः श्रुतिः ॥५॥ न चावान्तरवर्णानां नानात्वस्यास्ति कारणम् । न चैकस्यैव सर्वासु गमनं दिक्षु युज्यते ॥६॥" १०
[ मी० श्लो० शब्दनि० श्लो० १०७-११२] इत्यादि । तद्व्यञ्जकवाय्वागमनेपि समानम् । शक्यते हि शब्दस्थाने वायुं पठित्वा 'वायोरागमनं तावदृष्टं परिकल्पितम्' इत्याद्यभिधातुम् ।
किञ्च, अदृष्टकल्पनागौरवदोषो भवत्पक्ष एवानुषज्यते;१५ तथाहि-शब्दस्य पूर्वापरकोट्योः सर्वत्र च देशेऽनुपलभ्यमानस्य सत्त्वम्, तस्य चावारकाः स्तिमिता वायवः प्रमाणतोऽनुपलभ्यमानाः कल्पनीयाः, तदपनोदकाश्चान्ये, तेषां शक्तिनानात्वं कल्पनीयम् , नास्मत्पक्ष । पौद्गलिकत्वं च यथावसरं गुणनिषेधप्रक्रमे प्रसाधयिष्यामः । तत्सिद्धं घटस्य चक्रादिव्यापारकार्यत्ववच्छब्दस्य २० ताल्वादिव्यापारकार्यत्वमिति साधूक्तम्-'आप्तवचनम्' इत्यादि। - नेनु शब्दार्थयोः सम्बन्धासिद्धेः कथमाप्तप्रणीतोपि शब्दोऽर्थे ज्ञानं कुर्याद्यत आप्तवचन निबन्धनमित्यादि वचः शोभतेत्याशङ्कापनोदीर्थम् ‘सहजयोग्यता' इत्याद्याहसहजयोग्यतासङ्केतवशाद्धि शब्दादयः वस्तु- २५
प्रतिपत्तिहेतवः ॥ १० ॥
१ अवयवाः। २ अदृष्टाः। ३ रचना=बन्धः। ४ अदृष्टः। ५ भेदः । ६ वर्णोत्पत्तौ । ७ शब्दानां पुद्गलरूपाणाम् । ८ जनानाम् । ९ शब्दानां वायूना च। १० जैनोक्ताः। ११ सम्वद्धाः। १२ कारणेन । १३ वर्णवायूत्पत्तौ । १४ पुद्गलरूपाणां वर्णानाम् । १५ एकस्य नरस्य। १६ नृणाम् । १७ अव्यापकः शब्दो जनमते यतः। १८ मध्योत्पन्नानाम् । १९ नैयायिकस्य । २० गस्य । २१ जैनस्य । २२ ताल्वादिजनितशब्दाभिव्यजकध्वनेः। २३ मीमांसकपक्षे । २४ व्यञ्जकाः। २५ जैन । २६ सौगतः। २७ निराकरणार्थम् । ...
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org