________________
सू० ३।९९] शब्दनित्यत्ववादः
“यो यो गृहीतः सर्वस्सिन्देशे शब्दो हि विद्यते । न चास्थाऽवयवाः सन्ति येन वर्तेत भागशः॥२॥ शब्दो वर्त्तत इत्येव तत्र सर्वात्मकश्च सः।। व्येअकध्वन्यऽधीनत्वात्तद्देशे स च गृह्यते ॥३॥ नं च ध्वनीनां सामर्थ्य व्याप्तुं व्योम निरन्तरम् । तेनाऽविच्छिन्नरूपेण नासौ सर्वत्र गृह्यते ॥४॥ ध्वनीनां भिन्नदेशत्वं ध्रुतिस्तत्रानुरुध्यते । अपूरितान्तरालत्वाद्विच्छेदश्वावसीयते ॥५॥ तेषां चाल्पकदेशत्वाच्छब्देप्यऽविभुतामतिः। गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः॥६॥ श्रोता ततस्ततः शब्दमायान्तमिव मन्यते ।"
[मी० श्लो० शब्दनि० श्लो० १७२-१७५ ] अथैकेन भिन्नदेशोपलम्भाद् घटादिवन्नानात्वम् ; न; आदित्येनानेकान्तात् । दृश्यते ।केनादित्यो भिन्नदेशः, न चैतावतासौ नाना । अथ 'युगपदेकेन भिन्नदेशोपलब्धेः' इति विशेष्योच्यते; १५ तथाप्यनेनैवानेकान्तः। जलपात्रेषु हि भिन्नदेशेषु सवितैकोप्येकेन युगपद्भिनदेशो गृह्यते । उक्तं च
"सूर्यस्य देशभिन्नत्वं न त्वेकेन न गृह्यते । न नाम सर्वथा तावदृष्टस्योनेकदेशता ॥१॥ सविशेषेण हेतुश्चेत्तथापि व्यभिचारिता । दृश्यते भिन्न देशोयमित्येकोपि हि बुध्यते ॥२॥ जलपात्रेषु चैकेन नानकः सवितेक्ष्यते। युगपन च मेदेस्य प्रमाणं तुल्यवेदनात् ॥ ३॥"
[मी० श्लो० शब्दनि० श्लो० १७६-१७८ ]
१ प्रत्यभिशानाच्छब्दस्य व्यापकत्वं कथमित्युक्ते आह । २ अवयवसद्भावात् खण्डशो वर्तते इत्युक्ते आह। ३ भागशो न वर्तते तहिं कथं वर्तते इत्युक्ते आह । ४ सर्वत्र विद्यते चेत्तर्हि सर्वत्रैवोपलम्भः स्यादित्युक्ते आह । ५ ध्यनयोपि सकलदेश कथं न व्याप्नुवन्तीत्युक्ते आह । ६ नानादेशेषूपलभ्यमानत्वम् । ७ शब्दश्रवणम् । ८ शब्दव्यञ्जकवायूनाम् । ९ अत एव श्रवणव्यभिचारो दृश्यते। १० गतिःक्रियारूपा । वेगः-संस्कारविशेषः । ११ भिन्नदेशश्चेदुपलभ्यते तदा मिनदेशो भविष्यतीत्युक्ते आह नेति । १२ सूर्यस्य । १३ युगपदिति । १४ कथं व्यभिचारो दृश्यते इत्यारेकायामाह । १५ एकः सूर्यो भिन्नदेशतया कथं बुध्यते इत्युक्त आह । १६ एवं चेत्तर्हि सूर्यों नानारूपो भविष्यतीत्युक्ते आह । १७ आदित्य आदित्य इति समानरूपतावेदनाद्धेतोरेक एवायमित्युनुमीयते । न चास्य भेदे प्रमाणं किंचिदित्यर्थः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org