________________
सू० ३।९९] वेदापौरुषेयत्वविचारः पुरुषपूर्वकत्वेनास्य साध्यविशेषणस्य सुप्रसिद्धत्वात् । न च हेतोः खरूपासिद्धत्वम् । तद्वचनरचनासु विशेषग्राहकप्रमाणाभावेनास्याऽभावात्।
न चाप्रामाण्याभावलक्षणो विशेषस्तत्रेत्यभिधातव्यम् । तस्य विद्यमानस्यापि तनिराकारकत्वाभावात् । यादृशो हि विशेष:५ प्रतीयमानः पौरुषेयत्वं निराकरोति तादृशस्यास्याऽभावाद - विशिष्टत्वम् न पुनः सर्वथा विशेषाभावात् , एकान्तेनाऽविशिष्टस्य कस्यचिद्वस्तुनोऽभावात् । अप्रामाण्याभावलक्षणश्च विशेषो दोषवन्तमप्रामाण्यकारणं पुरुषं निराकरोति न गुणवन्तमप्रामाण्यनिवर्त्तकम् । न च गुणवतः पुरुषस्याभावादन्यस्य चानेन १० विशेषेण निराकृतत्वात्सिद्धमेवापौरुषेयत्वं तत्रेत्यभ्युपगन्तव्यम्; तत्सद्भावस्य प्राक्प्रतिपादितत्वात् । तद्भावेऽप्रामाण्याभावलक्षणविशेषाभावप्रसङ्गाच्च।
पौरुषेये प्रासादादौ हेतोर्दर्शनादपौरुषेये चाकाशादावऽदर्शनानानैकान्तिकत्वम् । अत एव न विरुद्धत्वम् ; पक्षधर्मत्वे हि सति १५ विपक्षे वृत्तिर्यस्य स विरुद्धः,न चास्य विपक्षे वृत्तिः। नापि कालात्ययापदिष्टत्वम्। तद्धि हेतोः प्रत्यक्षागमबाधितकर्मनिर्देशानन्तरप्रयुक्तं भवतेष्यते । न च यत्र खसाध्याविनाभूतो हेतुर्मिणि प्रवर्त्तमानः स्वसाध्यं प्रसाधयति तत्रैव प्रेमाणान्तरं प्रवृत्तिमासादयत्तमेव धर्म व्यावर्तयति; एकस्यैकदैकत्र विधिप्रतिषेधयो-२० विरोधात् । प्रकरणसमत्वमपि प्रतिहेतोर्विपरीतधर्मप्रसाधकस्य प्रकरणचिन्ताप्रवर्तकस्य तत्रैव धर्मिणि सद्भावोऽभिधीयते । न च खसाध्याविनाभूतहेतुप्रसाधितधर्मिणो विपरीतधर्मोपेतत्वं सम्भवतीति न विपरीतधर्माधायिनो हेत्वन्तरस्य तत्र प्रवृत्तिरिति । तन्न वेदपदधाक्ययोर्नित्यत्वं घटते।
२५
१ पौरुषेयत्वस्य । २ लौकिकं नररचितरचनाऽविशिष्टं वैदिकं नेति भेदः। ३ पौरुषेयत्व । ४ वैदिकलौकिकशब्दयोरभिन्नत्वम् । ५ अविभिन्नत्वम् । ६ सर्वथा वैदिकलौकिकशम्दयोरविशेषादभेदो भविष्यतीत्युक्ते आह । ७ सर्वप्रकारेण। ८ अमेदरूपस्य। ९ वैदिकलौकिकशब्दयोरतीन्द्रियार्थेन्द्रियार्थप्रतिपादकत्वाद्भेदो यतः । १० वेदे । ११ सर्वशसिद्धिप्रस्तावे । १२ यथा शब्दो नित्यः कृतकत्वादिति कृतकत्वस्य शब्दधर्मस्वेपि नित्यात्साध्याद्विपरीतेऽनिये विपक्षे वृत्तिमत्वाद्विरुद्धः। १३ हेतोः। १४ पक्ष । १५ अप्तिक्रियाविषयत्वात्कमेस्समिधानम् । १६ प्रत्यक्षागमलक्षणम् । १७ धर्मस्य । १८ प्रतिपक्षसाधकस्य । १९ संशयात्मभृत्यानिश्चयात्पर्यालोचना । २० सत्प्रतिपक्षो हेतुः प्रकरणसम इति वचनात् । २१ प्रसाधकस्य । २१ विधिप्रतिषेषरूपयोः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org