________________
४०२
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० एवेतरेतराश्रयः-वेदार्थपरिक्षानाभावे हि तत्पूर्वकानुष्ठानजनितधर्मविशेषानुत्पत्तिः, तदनुत्पत्तौ च वेदार्थपरिज्ञानाभाव इति । तन्नातीन्द्रियार्थदर्शिनोऽनभ्युपगमे वेदार्थप्रतिपत्तिर्घटते।
ननु व्याकरणाद्यभ्यासाल्लौकिकपदवाक्यार्थप्रत्तिपत्तौ तदवि५शिष्टवैदिकपदवाक्यार्थप्रतिपत्तिरपि प्रसिद्धरश्रुतकाव्यादिवत्, तेन वेदार्थप्रतिपत्तावऽतीन्द्रियार्थदर्शिना किञ्चित्प्रयोजनम्। इत्यप्यसारम् ; लौकिकवैदिकपदानामेकत्वेप्यनेकार्थत्वव्यवस्थितेः अन्यपरिहारेण व्याचिख्यासितार्थस्य नियमयितुशक्तेः । न च प्रकरणादिभ्यस्तनियमः, तेषामप्यनेकप्रवृत्तसिन्धानादिवत् । १० यदि च लौकिकेनाट्यादिशब्देनाविशिष्टत्वाद्वैदिकस्यान्यादिशब्दस्यार्थप्रतिपत्तिः, तर्हि पौरुषेयेणाविशिष्टत्वात्पौरुषेयोसौ कथं न स्यात् ? लौकिकस्य हरयादिशब्दस्यार्थवत्त्वं पौरुषेयत्वेन व्याप्तम् । तत्रायं वैदिकोऽत्यादिशब्दः कथं पौरुषेयत्वं परित्यज्य तदर्थमेव ग्रहीतुं शक्नोति ? उभयंमपि हि गृह्णीयाजह्याद्वा। १५ नं च लौकिकवैदिकशब्दयोः शब्दस्वरूपाविशेषे सङ्केतंग्रहणसव्यपेक्षत्वेनाऽर्थप्रतिपादकत्वे अनुच्चार्यमाणयोश्च पुरुषेणाऽश्रवणे समाने अन्यो विशेषो विद्यते यतो वैदिका अपौरुषेयाः शब्दा लौकिकास्तु पौरुषेया स्युः । सङ्केते(ता)नतिक्रमेणार्थप्रत्यायनं चोभयोरपि। २० न चापौरुषेयत्वे पुरुषेच्छावशादर्थप्रतिपादकत्वं युक्तम् , उपलभ्यन्ते च यत्र पुरुषैः सङ्केतिताः शब्दास्तं तमर्थमविगानेन प्रतिपादयन्तः, अन्यथा तत्सङ्केतभेदपरिकल्पनानर्थक्यं स्यात् । ततो ये नररचितवचनरचनाऽविशिष्टास्ते पौरुषेयाः यथाऽभिनव. कूपप्रासादादिरचनाऽविशिष्टा जीर्णकूपप्रासादादयः, नररचित२५ वचनाऽविशिष्टं च वैदिकं वचनमिति ।
न चौत्राश्रयासिद्धो हेतुः, वैदिकीनां वचनरचनानां प्रत्यक्षतः प्रतीतेः । नाप्यप्रंसिद्धविशेषणः पक्षः, अभिनवकूपप्रासादादौ
१ आदिना निघण्टुः । २ तस्मात्कारणात् । ३ सदृशत्वे । ४ अन्यार्थस्य । ५ द्विसन्धानकान्यवत् । ६ सदृशत्वात् । ७ शब्देन । ८ अमयादिशब्दस्यावखे पौरुषेयत्वेन ब्याप्ते सति । ९ अपौरुषेयत्वपौरुषेयत्वदयम् । १० वैदिकानां शब्दानां कश्चन विशेषोस्ति ततोऽमीषामपौरुषेयत्वमित्याशझ्याह । ११ समानत्वे । १२ अस शब्दस्यायमर्थ इति । १३ समाने। १४ समानम् । १५ वेदे। १६ अर्थे । १७ वैदिकं वचनं धर्मि पौरुषेयं भवति नररचितवचनरचनाऽविशिष्टस्वाद । १८ अनु.
माने। १९ भवणेन । २० स्वमतापेक्षया । २१ साध्यं पौरुषेयत्वम् । २१ सपथे। Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org