________________
३७०
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० अनिष्टाध्यक्षादिवाधितयोः साध्यत्वं माभूदितीष्टाबाधितवचनम् ॥ २२ ॥ अनिष्टं हि सर्वथा नित्यत्वं शब्दे जैनस्य । अश्रावणत्वं तु प्रत्यक्षबाधितम् । आदिशब्देनानुमानादिबाधितपक्षपरिग्रहः । ५तत्रानुमानवाधितः यथा-नित्यः शब्द इति । आगमवाधितः यथा-प्रेत्याऽसुखप्रदो धर्म इति । खवचनबाधितः यथा-माता मे बन्ध्येति । लोकबाधितः यथा-शुचि नरशिरःकपालमिति । तयोरनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा भूदितीष्टाबाधित.
वचनम्। १० ननु यथा शब्दे कथञ्चिदनित्यत्वं जैनस्यष्टं तथा सर्वथाऽनित्यत्वमाकाशगुणत्वं चान्यस्येति तदपि साध्यमनुषज्यते । न च वादिनो यदिष्टं तदेव साध्यमित्यभिधातव्यम्; सामान्याभिधायित्वेनेष्टस्यान्यत्रींप्यविशेषात् । इत्याशङ्कापनोदार्थमाह
न चासिद्धवदिष्टं प्रतिवादिनः॥ २३ ॥ १५ विशेषणम् । न हि सर्व सर्वापेक्षया विशेषणं प्रतिनियतत्वाद्विशेषणविशेष्यभावस्य । तंत्रासिद्धमिति साध्यविशेषणं प्रतिवाद्यपेक्षया न पुनर्वाद्यपेक्षया, तस्यार्थखरूपप्रतिपादकत्वात् । न चाविज्ञातार्थवरूपः प्रतिपादको नामातिप्रसङ्गात् । प्रतिवादिनस्तु प्रतिपाद्यत्वात्तस्य चाविज्ञातार्थस्वरूपत्वाविरोधात् तदपेक्षयैवेदं २० विशेषणम् । इष्टमिति तु साध्यविशेषणं वाद्यपेक्षया, वादिनो हि
यदिष्टं तदेव साध्यं न सर्वस्य । तदिष्टमप्यध्यक्षाद्यबाधितं साध्य भवतीति प्रतिपत्तव्यं तत्रैव साधनसामर्थ्यात् । तदेव समर्थयमानः प्रत्यायनाय हीत्याद्याह
प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४ ॥ २५ इच्छया खलु विषयीकृतमिष्टमुच्यते । स्वाभिप्रेतार्थप्रतिपादनाय चेच्छा वक्तुरेव।
तस्य चोक्तप्रकारस्य साध्यस्य हेतोाप्तिप्रयोगकालापेक्षया साध्यमित्यादिना भेदं दर्शयति
१ शब्दः अश्रावण इत्युक्ते। २ प्रत्यभिज्ञायमानत्वादिति हेतुः। ३ कृतकत्वादिति हेतुना बाध्यः पक्षोऽत्र । ४ पुरुषाश्रितत्वादधर्मवत् । ५ पुरुषसंयोगेपि अगत्वात् प्रसिद्धवन्ध्यावत्। ६ प्राण्यङ्गत्वाच्छसशुक्तिवत् । ७ साध्ययोः। ८ वैशेषिकस्य । ९ जैनस्य । १० प्रतिवादिन्यपि । ११ इष्टाऽसिद्धयोर्मध्ये। १२ सम्बन्धिनः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org