________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० सत्त्वेनाप्यसम्बन्धात् । सम्बन्धे वा तद्वदऽनोगतकालसम्बद्धधर्मादिस्वरूपेणापि सम्बन्धसम्भवान्न धर्मशप्रतिषेधः स्यात् । . नाप्यनुमानं तत्प्रसाधकम्; तद्धि कर्बऽस्मरणहेतुप्रभवम् , वेदाध्ययनशब्दवाच्यत्वलिङ्गजनितं वा स्यात्, कालत्वसाधनस५मुत्थं वा? तत्राद्यपक्षे किमिदं कर्तुरस्मरणं नाम-कर्तृस्मरणाभावः,
अस्मयमाणकर्तृकत्वं वा? प्रथमपक्षे व्यधिकरणाऽसिद्धो हेतुः, कर्तृस्मरणाभावो ह्यात्मन्यपौरुषेयत्वं वेदे वर्तते इति ।
द्वितीयपक्षे तु दृष्टान्ताभावः; नित्यं हि वस्तु न स्मर्यमाणकर्तृकं नाप्यस्मर्यमाणकर्तृकं प्रतिपन्नम्, किन्त्वकर्तृकमेव । हेतुश्च व्यर्थ१० विशेषणः; संति हि कर्तरि स्मरणमस्मरणं वा स्यान्नासति खरविषाणवेत् । अथाऽकर्तृकत्वमेवात्र विवक्षितम् ; तर्हि स्मर्यमाणग्रहणं व्यर्थम् , जीर्णकूपप्रासादादिभिर्व्यभिचारश्च । अथ सम्प्र. दायाँऽविच्छेदे सत्यऽस्मर्यमाणकर्तृकत्वं हेतुः, तथाप्यनेकान्तः। सन्ति हि प्रयोजनाभावादस्मर्यमाणकर्तृकाणि 'वटे वटे वैश्रवणः'
.] इत्याद्यनेकपदवाक्यान्यविच्छिन्नसम्प्रदायानि । न च तेषामपौरुषेयत्वं भवतापीष्यते । असिद्धश्चार्य हेतुः; पौराणिका हि ब्रह्मकर्तृकत्वं स्मरन्ति “वक्त्रेभ्यो वेदास्तस्य विनिःसृताः" [ ] इति । "प्रेतिमन्वन्तरं चैव श्रुतिरन्या विधीयते"[ ] इति चाभिधानात् । “यो वेदांश्च २० प्रैहिणोति" [ ] इत्यादिवेदवाक्येभ्यश्च तत्कर्ता मर्यते ।
स्मृतिपुराणादिवञ्च ऋषिनामाङ्किताः काण्वमाध्यन्दिनतैत्तिरीयादयः शाखाभेदाः कथमस्मर्यमाणकर्तृकाः ? तथाहि-एतास्तत्कृत
, १ न केवलमनादिकालेन। २ अनुष्ठेयत्वेन। ३ पुण्य । ४ आदिना पापम् । ५ इति । ६ कर्तृविषयं यत्स्मरणं ज्ञानं तस्याभावः। ७ स्मर्थमाणकर्तृप्रतिषेधः । ८ आकाशवदिति दृष्टान्तः। ९ भिन्नाधिकरणः सन्। १० दृष्टान्ते । ११ व्यर्थविशेषणः कथमित्युक्ते आह । १२ खरविषाणे यथा स्मरणमस्मरणं वा नास्ति कडभावात् । १३ अनुमाने। १४ वेदे वर्णक्रमः पाठक्रमः उदात्तादिक्रमश्च सम्प्रदायः। १५ चत्वरे चत्वरे ईश्वरः पर्वते पर्वते रामः सर्वत्र मधुसूदनः । सा ते भवतु सुप्रीता देवी गिरिनिवासिनी । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। १६ कथम् । १७ चतुर्व्यः। १८ ब्रह्मणः। १९ अस्सर्यमाणकर्तृकस्य हेतोरनैकान्तिकत्वासिद्धस्वे ते उद्भाव्य पुनरप्यसिद्धत्वमुद्भावयन्ति । २० एकस्मान्मनोः सकाशादपरो मनुः मन्वन्तरम् । तत्तत्प्रति प्रतिमन्वन्तरम् । २१ वेदः। २२ स्मृतिः । २३ मिन्ना। २४ करोति । २५ प्रसन्नो भवतु इत्यादिभ्यश्च । २६ सन्तानः । २७ गोत्रमेदाः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org