________________
सू० ३३५२-६०] कारणादिहेतुसमर्थनम्'
३७९
उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च ॥ ५८ ॥
अविनाभावनिमित्तो हि साध्यसाधनयोर्गम्यगमकभावः। यथा चोपलब्धेर्विधौ साध्येऽविनाभावाद्गमकत्वं तथा प्रतिषेधेपि । अनुपलब्धेश्च यथा प्रतिषेधे ततो गमकत्वं तथा विधावपीत्यग्रे खयमेवाचार्यो वक्ष्यति ।
सा चोपलब्धिर्द्विप्रकारा भवत्यविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्चेतिअविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारण
पूर्वोत्तरसहचरभेदात् ॥ ५९॥ तत्र साध्येनाविरुद्धस्य व्याप्यादेरुपलब्धिर्विधौ साध्ये षोढा १० भवति व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् ।
ननु कार्यकारणभावस्य कुतश्चित्प्रमाणादप्रसिद्धेः कथं कार्य कारणस्य तद्वा कार्यस्य गमकं स्यादित्यप्यास्तां तावद्विषयपरिच्छेदे सम्बन्धपरीक्षायां कार्यकारणतादिसम्बन्धस्य प्रसाधयिष्यमाणत्वात्।
ननु प्रसिद्धपि कार्यकारणभावे कार्यमेव कारणस्य गमकं तस्यैव तेनाविनाभावात्, न पुनः कारणं कार्यस्य तदभावात् ; इत्यसङ्गतम्; कार्याविनाभावितयाऽवधारितस्यानुमानकालप्राप्तस्य छत्रादेविशिष्टकारणस्य छायादिकार्यानुमापकत्वेन सुप्रसिद्धत्वात् । न हनुकूलमात्रमन्त्यक्षणप्राप्तं वा कारणं लिङ्गमुच्यते, येन प्रतिबन्ध-२० वैकल्यैसम्भवाद्यभिचारि स्यात्, द्वितीयक्षणे कार्यस्य प्रत्यक्षीकरणादनुमानानर्थक्यं वा । तदेव समर्थयमानो रसादेकसामध्यनुमानेनेत्याद्याहरसादेकसामयनुमानेन रूपानुमानमिच्छद्भिरि
ष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्या- २५
प्रतिबन्धकारणान्तरावैकल्ये ॥६०॥ १ साध्ये । अविनाभावाद्गमकत्वमुपलब्धेः। २ साध्ये। ३ साध्ये । ततो गमकत्वमनुपलम्धेः। ४ स्वभावहेतुरयम् । ५ शानाद्वैतवादी शून्यवादी वा बौद्धविशेषः प्राह । ६ न केवलमये प्राक्तनं वक्ष्यतीत्यपि । ७ आदिना संयोगादिग्रहणम् । ८ चन्द्रवृद्धा । ९ आदिना समुद्रवृद्धिः । १० तन्तुसंयोगरूप । ११ मत्रौषधादिना प्रतिबन्धः। १२ द्वन्द्वः। १३ सहकारिणां क्षित्यादीनां वैकल्यम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org