________________
२३२
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
स्कस्य दृष्टान्ता? इत्यप्यसङ्गतम्। तस्यार्थान्तरभूतस्यालोकस्येवात्रैवानन्तरं समर्थयिष्यमाणत्वात् । ननु परिच्छेद्यत्वं च स्यात्त. योस्तैत्कारणत्वं च अविरोधात्; इत्यप्यपेशलम्। तत्कारणत्वे तयोश्चक्षुरादिवत्परिच्छेद्यत्वविरोधात् । ५ किञ्च, अर्थकार्यतया ज्ञानं प्रत्यक्षतः प्रतीयते, प्रमाणान्तराद्वा? प्रत्यक्षतश्चेत्कि तत एव, प्रत्यक्षान्तराद्वा? न तावत्तत एव, अनेनार्थमात्रस्यैवानुभवात् । तद्धेतुत्वविशिष्टार्थानुभवे वा विवादो न स्यान्नीलत्वादिवत् । न खलु प्रमाणप्रतिपन्ने वस्तुरूपेऽसौ दृष्टो विरोधात् । न हि कुम्भकारादेर्घटादिहेतुत्वेनानुभवे सोस्ति । तन्न १० तेंदेवात्मनोऽर्थकार्यतां प्रतिपद्यते । नापि प्रत्यक्षान्तरम् । तेनाप्य
र्थमात्रस्यैवानुभवात् , अन्यथोक्तदोषानुषङ्गः, ज्ञानान्तरस्यानेनाग्रहणाच्च । एकार्थसमवेतानन्तरज्ञानग्राह्यमर्थशानमित्यभ्युपैगमेपि अनेनार्थाग्रहणम् । न चोभयविषयं ज्ञानमस्ति यतस्तत्प्रतिपत्तिः ।
अथ प्रमाणान्तरात्तस्यार्थकार्यता प्रतीयते; तत्किं ज्ञानविषयम्, १५ अर्थविषयम्, उभयविषयं वा स्यात् ? तत्राद्यविकल्पद्वये तयोः
कार्यकारणभावाप्रतीतिः एकैकविषयज्ञानग्राह्यत्वात् , कुम्भकारघटयोरन्यतरविषयज्ञानग्राह्यत्वे तद्भावाप्रतीतिवत् । नाप्युभयविषयज्ञानात्तत्प्रतीतिः, तद्विषयज्ञानस्यास्मादृशां भवताऽनभ्युपगमात् । न खलु 'शाने प्रवृत्तं ज्ञानमथैपि प्रवर्ततेऽर्थे वा प्रवृत्तं २० ज्ञाने' इत्यभ्युपगमो भवतः । अभ्युपगमे वा प्रमाणान्तरत्वप्रस. क्तिरिति व्याप्तिशानविचारे विचारयिष्यते ।
अथानुमानात्तत्कार्यतावसाय; तथाहि-अर्थालोककार्य विज्ञानं तदन्वयव्यतिरेकानुविधानात्, यद्यस्यान्वयव्यतिरेकावविधत्ते
तत्तस्य कार्यम् यथाग्नेधूमः, अन्वयव्यतिरेकावनुविधत्ते चार्था२५ लोकयोञ्जनम् इति । न चात्रासिद्धो हेतुस्तत्सद्भावे सत्येवास्य भावाभावे चाभावात् । इत्याशङ्कयाह
१ ग्रन्थे। २ तत्र ज्ञाने। ३ घटं विषयीकरोति यत्प्रत्यक्षम् । ४ शान । ५ आधप्रत्यक्षम् । ६ स्वस्य । ७ जानाति । ८ विचारलक्षणम् । ९ अर्थशानयोरनुभवश्चेत्प्रत्यक्षान्तरेण। १० प्रथमप्रत्यक्षशानस्य । ११ द्वितीयशानापेक्षया। १२ द्वितीयज्ञानेन। १३ आत्मलक्षण । १४ द्वितीय । १५ परेण । १६ अर्थकार्यतया ज्ञानस्य । १७ अपि तु न कुतोपि। १८ शानस्य । १९ बसः। २० अर्थशानयोः। २१ प्रमाणान्तरात् । २२ शानस्यार्थकार्यतायाः । २३ किञ्चिज्ञानाम् । २४ नैयायि. केन । २५ उभयविषयज्ञानस्य । २६ उभयविषयज्ञानस्य पञ्चमस्य । २७ निश्चयः । २८ अनुकरोति।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org