________________
सू० २1१२ ]
: सर्वज्ञत्ववादः
ज्ञज्ञानमिन्द्रियप्रभवं प्रतिज्ञायते । किञ्चाङ्गनालिङ्गनसेवनाद्यभिलापस्येन्द्रियोद्रेकहेतोराविर्भावाद्रागादिमत्त्वं प्रसिद्धम् । न चासौ प्रक्षीणमोहे भगवत्यस्तीति कथं रागादिमत्त्वस्याशङ्कापि ।
यदप्यभिहितम् कथं चातीतादेर्ग्रहणं तत्स्वरूपासम्भवादित्यादि तदप्यसारम् ; यतोऽतीतादेरतीतादिकालसम्बन्धित्वेना-५ सत्त्वम्, तज्ज्ञानकालसम्बन्धित्वेन वा ? नाद्यः पक्षो युक्तः; वर्त्त - मानकालसम्बन्धित्वेन वर्त्तमानस्येव स्वकालसम्बन्धित्वेनातीतादेरपि सत्त्वसम्भवात् । वर्त्तमानकालसम्बन्धित्वेन त्वतीतादेरसत्वमभिमतमेव, तत्कालसम्बन्धित्वर्तेत्सत्त्वयोः परस्परं भेदात् । न चैतत्कालसम्बन्धित्वेनासत्त्वे स्वकालसम्बन्धित्वेनाप्यतीतादेर १० सत्वम् वर्त्तमानकालसम्बन्धिनोप्यतीतादिकालसम्बन्धित्वेनासत्त्वात् तस्याप्यसत्त्वप्रसङ्गात् सकलशून्यतानुषङ्गः । न चातीतादेः सत्त्वेन ग्रहणे वर्त्तमानत्वानुषङ्गः; स्वकालनियतसत्त्वरूपतथैव तस्य ग्रहणात् । ननु चातीतादेस्तज्ज्ञानकाले असन्निधानात्कथं प्रतिभासः, सन्निधाने वा वर्त्तमानत्वप्रसङ्गः प्रसिद्ध वर्त्त. १५ मानवत्; इत्यपि मन्त्रादिसंस्कृतलोचनादिज्ञानेन व्याप्तिज्ञानेन च प्रागेव कृतोत्तरम् ।
S
२६१
अथोच्यते- 'पूर्व पश्चाद्वा यदि कंचित्कदाचिन्निखिलदर्शिनो विज्ञानं विश्रान्तं तर्हि तावन्मात्रत्वात्संसारस्य कुतोऽनाद्यनन्तता ? अथ न विश्रान्तं तर्हि नानेकयुगसहस्रेणापि सकलसंसा- २० रसाक्षात्करणम्' इति तदप्युक्तिमात्रम् ; यतः किमिदं विश्रा न्तत्वं नाम ? किं किञ्चित्परिच्छेद्याऽपरस्यापरिच्छेदः, सकलविषय देशकालगमनासामर्थ्यादवान्तरेऽवस्थानं वा, कचिद्विषये उत्पद्य विनाशो वा ? न तावदाद्यविकल्पो युक्तः; अनभ्युपगमात् । न खलु सर्वज्ञज्ञानं क्रमेणार्थपरिच्छेदकम्, युगपदशेषार्थोद्योत २५ कत्त्वात्तस्येत्युक्तम् । द्वितीयविकल्पोप्यनभ्युपगमादेवायुक्तः । न हि विषयस्य देशं कालं वा गत्वा ज्ञानं तत्परिच्छेदकमिति केनाप्यभ्युपगतम्, अप्राप्यकारिणस्तस्य क्वचिद्गमनाभावात् । केवलं यथाऽनाद्यनन्तरूपतया स्थितोर्थस्तथैव तत्प्रतिपद्यते । तृतीयविकल्पोप्ययुक्तः कचिद्विषये तस्योत्पन्नस्यात्मस्वभावतया विना- ३० शासम्भवात् । न हि स्वभावो भवस्य विनश्यति स्फटिकस्य
१ बसः । २ अर्धस्य । ३ जैनानाम् । ४ तस्यातीतार्थस्य । ५ अन्यथा । ६ अतीतकाल । ७ वर्त्तमानशानकाले । ८ उत्तरत्र । ९ अर्थे । १० समाप्तम् । ११ ता । १२ कस्मिंश्चिद्वस्तुनि । १३ जैनानाम् । १४ जैनानाम् । १५ ज्ञानस्य । १६ पदार्थस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org