________________
सू० २।२२]
स्त्रीमुक्तिविचारः
विपरीतंस्तु नियमो न सम्भवत्येव; नपुंसकवेदे तत्कारणापुण्यपरमप्रकर्षे सत्यप्यन्यस्यानभ्युपगमात् पुंस्यभ्युपगमाच्च, अनित्यत्वस्य प्रयत्नानन्तरीयकत्वेतरत्ववत् । ततश्च स्त्रीवेदस्यापि यदि मोक्षहेतुः परमप्रकर्षः स्यात्, तदा तदभ्युपगमादेवापरोष्यनिष्टोऽवश्यमापद्यते, अन्यथा पुंस्यपि न स्यात् । सिद्धे च प्रतिबन्ध - ५ याभावेपि कृतिकोदयादिवदुक्तं प्रकर्षयोर विनाभावे स्त्रीणां तत्कारणापुण्यपरमप्रकर्षप्रतिषेधेन मोक्षहेतुपरमप्रकर्षो निषिध्यते ।
न च 'नपुंसकस्य मोक्षहेतुपरमप्रकर्षोस्ति तत्कारणापुण्यपरमप्रकर्षसद्भावात् पुंवत् । पुंसो वा नास्त्यत एव नपुंसकवत् । तत्कारणाsपुण्यपरमप्रकर्षो वा नपुंसके नास्ति परमप्रकर्ष - १० त्वात् स्त्रीवदित्यप्यनिष्टापत्तिः उभयप्रसिद्धाद्धेतोरुभयप्रसिद्धस्यै निषेधेनो भयोस्तुल्यत्वात्' इत्यभिधातव्यम्; उभयाभिप्रेतागमेन बाधनात् । स्त्रीणां तु तत्कारणापुण्यपरमप्रकर्ष पैराभ्युपगतेनैव मोक्ष हेतु परमप्रकर्षेणापाद्य तत्प्रतिषेधेन तद्धेतुरेव प्रतिषिध्यत इत्यस्ति विशेषः ।
३२९
यहाँ नोक्तानुमाने तत्कारणापुण्यपरमप्रकर्षाभावाद्धेतोर्मोक्षिहेतुपरमप्रकर्षः स्त्रीषु निषिध्यते, अपि तु परमप्रकर्षत्वाद् दृष्टान्ते दृष्टसाध्यव्याप्तिकात् । न चात्रं केन चिद्व्यभिचारः; स्त्रीसम्बन्धिनः कस्यचित्परमप्रकर्षस्यासम्भवात् । मायापरम प्रकर्षोस्तीति चेत्; न; स्त्रीणां मायाबहुल्यमात्रस्यैवागमे प्रसिद्धेः । अन्यथा पुंवत्सप्तम २० पृथिवीगमनानुषङ्गः । 'मायापरमप्रकर्षादन्यत्वे सति' इति विशेबणीद्वा न दोषः । तन्न ज्ञानादिपरमप्रकर्षो मोक्षहेतुस्तत्रास्तीत्यै
२२
१ मोक्षहेतु परमप्रकर्षो व्यापकः साध्यं तत्कारणापुण्यपरमप्रकर्षो व्याप्यो हेतुरिति । २ अविनाभावः । ३ शब्दः प्रयत्नानन्तरीयकः अनित्यत्वादित्यत्रानित्यत्वस्य व्याप्यरूपस्य हेतोर्यथा प्रयत्नानन्तरीयकत्वम् । ४ नियमः सिद्धो यतः । ५ मोक्षहेतु परमप्रकर्षसद्भावेपि अपरोऽनिष्टो नोपपद्यते चेत् । ६ तादात्म्यतदुत्पत्तिलक्षणे द्वै । ७ मोक्षहेतुपरमप्रकर्ष सप्तमपृथ्वीगमनकारणापुण्यपरमप्रकर्षलक्षणयोः । ८ मोक्षहेतु परमप्रकर्षः । ९ साध्यस्य । १० वादिप्रतिवादिनोः । ११ सितपटप्रसिद्धस्य स्त्रीनिर्वाणस्यास्माभिः प्रतिषेधादस्मात्प्रसिद्धस्य सितपटेन प्रतिषेधात् इति तुल्यत्वम् । १२ सितपटपक्षस्य । १३ परः सितपटः । १४ इति कथं तुल्यत्वमुभयो : १ । १५ आयुक्तस्य परिहारान्तरे यद्वाशब्दः । १६ व्यापकाभावाद् व्याप्याभावं न कुर्म इत्यर्थः : । १७ यो यः परमप्रकर्षः स स स्त्रीषु नास्तीति । १८ स्त्रीषु मोक्षप्रतिषेधे । १९ प्राचुर्यमात्रं न तु परमप्रकर्षः । २० मायापरमप्रकर्षः स्त्रीष्वस्ति यदि । २१ परमप्रकर्षत्वे । २२ व्यभिचारलक्षणः । २३ परमप्रकर्षत्वादित्यत्रानुमाने ।
Jain Educationa International
For Personal and Private Use Only
१५
www.jainelibrary.org