________________
प्रमेयकमलमार्त्तण्डे [ ३. परोक्षपरि०
तामेवातिवर्त्तत इत्याकस्मिकोऽग्निनिवृत्तौ न केचिदपि निवर्त्तत, नाप्यवश्यंतया तत्सद्भावे एव स्यादिति, अहेतोः खरविषाणवत्तस्यासत्त्वात् कचिदप्युपलम्भो न स्यात्, सर्वत्र सर्वदा सर्वाकारेण वोपलम्भः स्यात् । स्वभावश्च 'द्वतोर्थस्याभावेपि ५ यदि स्यात्तदार्थस्य निःस्वभावत्वं स्वभावस्य वाऽसत्त्वं स्यात्, तत्स्वभावतया चास्य कदाचिदप्युपलम्भो न स्यात् । उक्तञ्च" कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः । सम्भवंस्तदभावेपि हेतुमत्तां विलङ्घयेत् ॥” [ प्रमाणवा० १३५ ]
३५०
१२
“स्वभावेष्यविनाभावो भावमात्रानुबन्धिनि । तदभावे स्वयं भावस्याभावः स्यादभेदतः ॥” [ प्रमाणवा० १४० ] इति ।
व्याप्तिप्रतिपत्तावपि
98
तनिश्चयकालोपलब्धेनैव व्यापकेन व्याप्यस्य व्याप्तिः स्यात् तस्यैव तथा निश्वयात्, न तादृशस्य । १५ तादृशस्यापि साध्यव्याप्तत्वग्रहणे तड्राहिणो विकल्पस्यांगृहीतग्राहित्वं कथं न स्यात् ? यत्तु प्रत्यक्षेण केचित्प्रदेशे साध्यव्याप्तत्वेन प्रतिपन्नं ततस्तस्यानुमाने विशेषतो दृष्टानुमानं स्यात्, अन्य देशादिस्थ साध्येनास्याव्याप्तेः ।
पारिशेष्यात्तदशेन व्यापकेनान्यत्र तादृशस्य व्याप्तिसिद्धिश्चेत्, २० ननु किमिदं पारिशेष्यम् - प्रत्यक्षम्, अनुमानं वा ? न तावत्प्रत्यक्षम् देशान्तरस्थस्यानुमेयस्य प्रत्यक्षेणाप्रतिपत्तेः, अन्यथानुमानानर्थक्यानुषङ्गः । नाप्यनुमानम् ; तत्राप्यनुमानान्तरेण व्याप्तिप्रतिपत्तावनवस्थाप्रसङ्गात् तेनैव तत्प्रतिपत्तावन्योन्याश्रयः ।
9
१ अतिक्रमेत् । २ अकारणकः । ३ भूधरप्रदेशे । ४ सत्त्व लक्षण हेतु यः । ५ स्वलक्षणो हेतुर्व्याप्यः । ६ अनित्यत्वलक्षणस्य साध्यस्य व्यापकस्य । ७ अनुयायिनि । ८ इति स्थितिः । ९ स्वभावस्य भावस्य वा । १० स्वभावस्य अर्थस्य वा । ११ साध्यसाधनयो: । १२ स्वातन्त्र्येणानवस्थानाभावात्स्वभावस्य । १३ अविशेषादित्यर्थः । १४ व्याप्तिनिश्चयकालोपलब्धस्य व्याप्यस्य साधनस्य । १५ साध्येन व्याप्तवप्रकारेण । १६ पूर्वदृष्टधूमसदृशस्य धूमस्य न तथा निश्चयः । १७ पूर्वदृष्टसदृशस्यापि धूमस्य । १८ सादृश्यमगृहीतम् । १९ महानसे । २० साधनम् । २१ साध्यस्य । २२ विशेषतः खदिरादिरूपतया दृष्टस्य महानसादौ यादृशाग्निः प्रतिपन्नस्तस्य भूधरादौ अनुमानस्य । २३ महान सस्थाग्निसदृशेन । २४ भूधर नितम्बादौ २५ अयं धूमोनिना व्याप्तो धूमत्वान्महानसधूमवदिति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org