________________
सू० ३।१५ ] हेतोः पाञ्चरूप्य निरासः
३६१
अथान्यतरस्यात्र खसाध्याविनाभाववैकल्यम्; तथाप्यत एवास्यागमकतेति किं तत्प्रतिपादनप्रयासेन ?
किञ्च, नित्यधर्मानुपलब्धिः प्रसज्यप्रतिषेधरूपा, पर्युदासरूपा वा शब्दानित्यत्वे हेतुः स्यात् ? तत्राद्यः पक्षोऽयुक्तः; तुच्छाभावस्य साध्यासाधकत्वान्निषिद्धत्वाच्च । द्वितीयपक्षे तु अनित्यधर्मोप- ५ लब्धिरेव हेतुः, सा च शब्दे यदि सिद्धा कथं नानित्यतासिद्धिः १ अथ तच्चिन्तासम्बन्धिपुरुषेणासौ प्रयुज्यत इति तंत्रासिद्धा; तर्हि कथं न सन्दिग्धो हेतुर्वादिनं प्रति ? प्रतिवादिनस्त्वसौ स्वरूपासिद्ध एव; नित्यधर्मोपलब्धेस्तत्रास्य सिद्धेः । तन्न पञ्चरूपत्वमप्यस्य लक्षणं घटते अबाधितविषयत्वादेर्विचार्यमाणस्यायोगात्पक्ष १० धर्मत्वादिवत् ।
यदि चैकस्य हेतोः पक्षधर्मत्वाद्यनेकधर्मात्मकत्वमिष्यते, तदाऽनेकान्तः समाश्रितः स्यात् । न च यदेव पक्षधर्मस्य सपक्षे एव सत्वम् तदेव विपक्षात्सर्वतोऽसत्त्वमित्यभिधातव्यम्; अन्वर्यव्यतिरेकयोर्भावाभावरूपयोः सर्वथा तादात्म्यायोगात्, तत्त्वे वा १५ केवलान्वयी केवलव्यतिरेकी वा सर्वो हेतुः स्यात्, न त्रिरूपवान् ।
व्यतिरेकस्य चाभावरूपत्वाद्धेतोस्तद्रूपत्वेऽभावरूपो हेतुः स्यात् । न चाभावस्य तुच्छरूपत्वात्खसाध्येन धर्मिणा सम्बन्धः । यदि च सपक्ष एव सत्त्वं विपक्षासत्त्वम् न ततो भिन्नम् ; तर्हि तदेवास्या - साधारणं कथं स्यात् ? वस्तुभूतान्याभावमन्तरेण प्रतिनियतस्या- २० स्याप्यत्रासम्भवात् । अथ ततस्तदन्यधर्मान्तरम् ; तहॊकस्यानेकधर्मात्मकस्य हेतोस्तथाभूतसाध्याविनाभावित्वेन निश्चितस्य अनेकान्तात्मकार्थप्रसाधकत्वात् कथं न पैरोपन्यस्तहेतूनां विरुद्धता ? एकान्तविरुद्धेनानेकान्तेन व्याप्तत्वात् ।
किञ्च, परैः सामान्यरूपो हेतुरुपादीयते, विशेषरूपो वा, उभ- २५ यम्, अनुभयं वा ? सामान्यरूपश्चेत्; तत्किं व्यक्तिभ्यो भिन्नम्, अभिन्नं वा ? भिन्नं चेत्; न; व्यक्तिभ्यो भिन्नस्य सामान्यस्याऽप्रति
१ द्वयोर्मध्ये एकस्याद्यस्य । २ प्रकरण । ३ नित्यधर्मानुपलब्धेरनित्यत्वं प्रतिपादयामः । अनित्यधर्मानुपलब्धेर्नित्यत्वं साधयामः इति । ४ शब्दे धर्मिणि । ५ शब्दे । ६ असत्प्रतिपक्षत्वस्य च । ७ हेतोः । ८ सपक्षे सत्त्वम् । ९ विपक्षेऽसत्त्वम् । १० अस्मिन्पक्षे व्यतिरेकस्यान्वयरूपत्वे तादात्म्यम् । ११ अत्र पक्षे अन्वयस्य व्यतिरेकरूपित्वे तादात्म्यम् । १२ केवलव्यतिरे कीत्यस्मिन्पक्षे । १३ हेतुरूपस्य । १४ अभावपक्षे हेतोः । १५ यसः । १६ भिन्न । १७ यसः । १८ विपक्षासत्त्वलक्षणम् । १९ वैशेषिक ।
प्र० क० मा० ३१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org