________________
सू० ३१५] हेतोः पाञ्चरूप्यखण्डनम्
३५७ ननु त्रैरूप्यं हेतोर्लक्षणं मा भूत् 'पक्कान्येतानि फलान्येकशाखाप्रभवत्वादुपयुक्तफलवत्' इत्यादौ 'मूल्यं देवदत्तस्तत्पुत्रत्वादि. तरतत्पुत्रवत्' इत्यादौ च तदाभासेपि तत्सम्भवात् । पश्चरूपत्वं तु तल्लक्षणं युक्तमेवानवद्यत्वात्, एकशाखाप्रभवत्वस्याबाधितविषयत्वासम्भवाद् आत्मताग्राहिप्रत्यक्षेणैव तद्विषयस्य बाधित-५ त्वात् , तत्पुत्रत्वादेश्चासत्प्रतिपक्षत्वा वात् तत्प्रतिपक्षस्य शास्त्रव्याख्यानादिलिङ्गस्य सम्भवात् ।
प्रकरणसमस्याप्यसत्प्रतिपक्षत्वाभावादहेतुत्वम् । तस्य हि लक्षणम् “यस्मात् प्रकरणचिन्ता स प्रकरणसमः" । [ न्यायसू० श२७ ] इति । प्रक्रियेते साध्यत्वेनाधिक्रियेते अनिश्चितौ पक्ष-१० प्रतिपक्षी यौ तौ प्रकरणम् । तस्य चिन्ता संशयात्प्रभृत्याऽऽनिश्चयात्पर्यालोचना यतो भवति से एव, तनिश्चयार्थ प्रयुक्तःप्रकरणसमः । पक्षद्वयेप्यस्य समानत्वाद्भयत्राप्यन्वयादिसद्भावात् । तयथा-'अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटादिवत्, यत्पुन. नित्यं तन्नानुपलभ्यमाननित्यधर्मकम् यथात्मादि' एवमेकेनान्य-१५ तेरानुपलब्धेरनित्यत्वसिद्धौ साधकत्वेनोपन्यासे सति द्वितीय: प्राह-यद्यनेन प्रकारेणानित्यत्वं प्रसाध्यते तर्हि नित्यतासिद्धिरप्यस्त्वऽन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथा हि-नित्यः शब्दोऽनित्यधर्मानुपलब्धेरात्मादिवत्, यत्पुनर्न नित्यं तन्नानुपलभ्यमानाऽनित्यधर्मकम् यथा घटादि;
इत्यप्यविचारितरमणीयम्; साध्याविनाभावित्वव्यतिरेकेणाप. रस्याबाधित विषयत्वादेरसम्भवात् तदेव प्रधानं हेतोर्लक्षणमस्तु किं पश्चरूपप्रकल्पनया? ने च प्रमाणप्रसिद्धत्रैरुप्यस्य हेतोर्विषये बाधा सम्भवति; अनयोर्विरोधात् । साँध्यसद्भावे एव हि हेतो.
२०
. १ यौगः। २ भक्षित। ३ स श्यामस्तत्पुत्रत्वादित्यादौ च। ४ अनुष्योग्नि. द्रव्यत्वाज्जलवत् इति च। ५ साध्यस्य । ६ तत्पुत्रो विद्वान् शास्त्रव्याख्यानसद्भावात् । ७ तत्पुत्रत्वादिति हेतोः। ८ हेतोः। ९ स्वीक्रियेते। १० वादिना यः पक्षो निश्चितः स प्रतिवादिना अनिश्चितः। यः प्रतिवादिना निश्चितः स वादिना न निश्चितः । ११ वादिप्रतिवादिभ्याम् । १२ बाधकादिमध्ये । १३ आ मर्यादायाम् । १४ हेतोः। १५ हेतुः। १६ हेतोः। १७ पक्षधर्मत्वादि । १८ सपक्षधर्मत्वादि । १९ तथा हि । २० नित्यत्व । २१ योगेन । २२ अनित्यधर्मस्य । २३ मीमांसकः। २४ असत्प्रतिपक्षत्वस्य च। २५ यौगमतमालम्ब्य सूरिभिरुच्यते। २६ बसः। २७ किं त्रैरूप्यं का च बाधा कथं च तयोविरोध इत्युक्ते आह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org