________________
सू० ३।१०] प्रत्यभिज्ञानप्रामाण्यविचारः
३४३
प्रसिद्धः । न चैकत्रैकत्वपरामर्शिप्रत्यभिज्ञानस्य मिथ्यात्वदर्शना
सर्वत्रास्य मिथ्यात्वम् ; प्रत्यक्षस्यापि सर्वत्र भ्रान्तत्वानुषङ्गान 'किञ्चित्कुतैश्चित्कस्यचित्प्रसिद्धयेत् । ततो यथा शुक्ले शो पीताभासं प्रत्यक्षं तत्रैव शुक्लाभासप्रत्यक्षान्तरेण बाध्यमानत्वादप्रमाणम् , न पुनः पीते कनकादौ तथा प्रकृतमपीति । ___ कथं च प्रत्यभिज्ञानविलोपेऽनुमानप्रवृत्तिः? येन हि पूर्वधूमोऽग्नेदृष्टस्तस्यैव पुनः पूर्वधूमसदृशधूमदर्शनादग्निप्रतिपत्तियुक्ता नान्यस्यान्यदर्शनात् । न च प्रत्यभिज्ञानमन्तरेण 'तेनेदं सदृशम्' इति प्रतिपत्तिरस्ति; पूर्वप्रत्यक्षेणोत्तरस्य तत्प्रत्यक्षेण च पूर्वस्याग्रहणात्, द्वयप्रतिपत्तिनिवन्धनत्वादुभयसादृश्यप्रतिपत्तेः १० सम्बन्धप्रतिपत्तिवत् । ततः प्रत्यभिज्ञा प्रमाणमभ्युपगन्तव्या।
तदप्रामाण्यं हि गृहीतग्राहित्वात्, स्मरणानन्तरभावित्वात्, शब्दाकारधारित्वाद्वा, बाध्यमानत्वाद्वा स्यात् ? न तावदाद्यविकल्पो युक्तः, न हि तद्विषयभूतमेकं द्रव्यं स्मृतिप्रत्यक्षग्राह्यमित्युक्तम् । तदृहीतातीतवर्तमानविवर्त्ततादात्म्येनावस्थितद्रव्यस्य १५ कथञ्चित्पूर्वार्थत्वेपि तद्विषयप्रत्यभिज्ञानस्य नाप्रामाण्यम् , लैङ्गिकादेरप्यप्रामाण्यप्रसङ्गात् तस्यापि सर्वथैवापूर्वार्थत्वासिद्धेः, सम्बन्धग्राहि विज्ञानविषयसाध्यादिसामान्यात् कथञ्चिदभिन्नस्यानुमेयस्य देशकालविशिष्टस्य तद्विषयत्वात् कथञ्चित्पूर्वार्थत्वसिद्धः। तन्न गृहीतग्राहित्वात्तत्राप्रामाण्यम् ।
२० नापि स्मरणानन्तरभावित्वात्; रूपस्मरणानन्तरं रससन्निपाते समुत्पन्नरसज्ञानस्याप्यप्रामाण्यप्रसङ्गात् । तत्र हि रूपस्मृतेः पूर्वकालभावित्वात् समनन्तरकारणत्वं “बोधाद्वोधरूपता" [ ] इत्यभ्युपगमात् । न चात्र वोधरूपतया समनन्तरकारणत्वमन्यत्र स्मृतिरूपतयेत्यभिधातव्यम्। स्मृतिरूप-बोधरूपयोस्तादात्म्ये २५ क्वचिद्बोधरूपतया तत्तस्य कचित्तु स्मृतिरूपतयेति व्यवस्थापयितुमशक्तेः । कथं चैवंवौदिनोऽनुमानं प्रमाणम् ? तद्धि लिङ्गलिङ्गि
१ देवदत्तादावपि । २ किञ्चिद्वस्तु । ३ प्रमाणात् । ४ प्रतिपत्तुः। ५ अप्रसिद्ध्ये थतः। ६ एकत्वनिबन्धस्य सादृश्यनिबन्धनस्य च। ७ देवदत्तन। ८ यशदत्तस्य । ९ विपक्षलक्षणप्रस्तरदर्शनात् । १० वृद्धत्वादिपर्यायस्य । ११ युवादिपर्यायस्य । १२ संयोगादि । १३ द्रव्यापेक्षया । १४ आदिना शब्दस्य । १५ तर्क। १६ भादिना साधनम्। १७ अग्न्यादेः। १८ सान्निध्ये। १९ स्मृतिरूपता बोधरूपता चास्ति स्मरणशानस्य । २० स्मृतौ। २१ स्मरणानन्तरभावित्वान्न प्रमाण प्रत्यभिज्ञा इत्येवम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org