________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० प्रत्ययवेबैकत्वगोचरत्वात्तस्याः प्रत्यभिज्ञानत्वे सादृश्यप्रतीतावपि तत्स्यात् । न हि तत्ताभ्यां न परिच्छिद्यते
"वस्तुत्वे सति चास्यैवं सम्बद्धस्य च चक्षुषा। द्वयोरेकंत्र वा दृष्टौ प्रत्यक्षत्वं न वार्यते ॥ १॥ सामान्यवञ्च सादृश्यमेकैकत्र समाप्यते। प्रतियोगिन्यदृष्टेपि तत्तस्मादुपलभ्यते ॥२॥"
[मी० श्लो० उपमान० श्लो० ३४-३५] इत्यस्य विरोधानुषङ्गात् । यथा च पूर्वोत्तरप्रत्ययाभ्यां गवयगवादिविशिष्टमप्रतिपन्नं सादृश्यमनेन प्रतीयते तथा पूर्वोत्तरपर्या१० यविशिष्टमेकत्वं प्रत्यभिज्ञानेन ।
यदि च 'एकत्वज्ञानमेव प्रत्यभिज्ञा सादृश्यज्ञानं तूपमानम् इत्यभ्युपगमः; तर्हि वैलक्षण्यज्ञानं किन्नाम प्रमाणं स्यात् ? यथैव हि गोदर्शनाहितसंस्कारस्य गवयदर्शिनः 'अनेन समानः सः'
इति प्रतिपत्तिस्तथा महिष्यादिदर्शिनः 'अनेन विलक्षणः सः' १५ इति वैलक्षण्यप्रतीतिरप्यस्ति । सा च न प्रत्यभिज्ञोपमानयोरन्यतरा तदेकत्वसादृश्याविषयत्वात्, अतः प्रमाणान्तरं प्रमाणसंख्या नियमविघातकृद्भवेत्परस्य ।
ननु सादृश्याभावो वैलक्षण्यम्, तस्याभावप्रमाणविषयत्वान प्रमाणसंख्यानियमविघातः; तर्हि वैलक्षण्याभावः सादृश्यमिति २० स एव दोषः। नन्वनेकस्य समानधर्मयोगः सादृश्यम्, तत्कथं
वैलक्षण्याभावमात्र स्यादिति चेत् ; तर्हि वैलक्षण्यमपि विसदृशधर्मयोगः, तत्कथं सादृश्याभावमात्रं स्यादिति समानम् ?
एतेन 'गौरिव गवयः' इत्युपमानवाक्याहितसंस्कारस्य पुनर्वने गवयदर्शनात् 'अयं गवयशब्दवाच्यः' इति संज्ञोसंज्ञिसम्बन्धप्रति
१ पूर्वोत्तरप्रत्ययवेद्यत्वाविशेषात् । २ अन्यथा । ३ उक्तप्रकारेण मीमांसकग्रन्थापेक्षया सादृशस्य वस्तुत्वं कथमिति प्रश्ने अवयवसामान्ययोगप्रकारेण वस्तुत्वम् । ४ गोगवयलक्षणयोर्विशेषयोः। ५ गवये वा। ६ प्रत्यक्षे सति । ७ एकत्र प्रत्यक्षत्वं कथं न वार्यते इत्युक्ते आह । ८ ग्रन्थस्य । ९ एतावता ग्रन्येन एकत्व प्रतीतिवत्सादृश्यप्रत्यभिज्ञानस्यापि पूर्वोत्तरप्रत्ययवेद्यसादृश्यगोचरत्वमस्तीति समर्थितम् । १० अप्रतिपन्नं प्रतीयते । ११ प्रत्यभिशानस्य उपमानस्य च । १२ वैलक्षण्यशानं । १३ मीमांसकस्य । १४ वैलक्षण्याभावलक्षणसादृश्यस्याभावप्रमाणवेद्यत्वात् उपमानप्रमाणभावे सति । १५ गोगवयलक्षणार्थस्य । १६ गवय । १७ तुच्छाभावरूपम् । १८ अवयव । १९ मीमांसकं प्रत्युपमानस्य प्रत्यभिज्ञानत्वसमर्थनपरेण ग्रन्थेन । २० उपमानस्य । २१ गवयशब्दस्य । २२ गवयपिण्डस्य । . ... .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org