________________
सू० ३।५-१०] प्रत्यभिज्ञानप्रामाण्यविचारः ३३९
"न हि स्मरणतो यत्प्राक् तत् प्रत्यक्षमितीदृशम् । वचनं राजकीयं वा लौकिकं वापि विद्यते ॥१॥ न चौपि स्मरणात्पश्चादिन्द्रियस्य प्रवर्त्तनम् । वार्यते केनचिन्नापि तत्तदानीं दुष्यति ॥२॥ तेनेन्द्रियार्थसम्बन्धात्प्रागूधं चापि यत्स्मृतेः। विज्ञानं जायते सर्व प्रत्यक्षमिति गम्यताम् ॥ ३॥” ।
[मी० श्लो० सू० ४ श्लो० २३४-२३७ ] अनेकदेशकालावस्थासमन्वितं सामान्यं द्रव्यादिकंच वस्त्वस्याः प्रमेयमित्यपूर्वप्रमेयसद्भावः। तदुक्तम्
"गृहीतमपि गोत्वादि स्मृतिस्पृष्टं च यद्यपि। तथापि व्यंतिरेकेण पूर्वबोधात्प्रतीयते ॥ १॥ देशकालोदिभेदेन तत्रास्त्यवसरो मितेः । यः पूर्वमवगतोशः स न नाम प्रतीयते ॥२॥ इंदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् ।"
[मी० श्लो० सू० ४ श्लो० २३२-२३४] १५ तदप्यसमीचीनम् ; प्रत्यभिज्ञानेऽक्षान्वयव्यतिरेकानुविधानस्यासिद्धेः, अन्यथा प्रथमव्यक्तिदर्शनकालेप्यस्योत्पत्तिः स्यात् । पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहाय मिन्द्रियं तजनयति; इत्यप्यसाम्प्रतम् । प्रत्यक्षस्य स्मृति निरपेक्षत्वात् । तत्सापेक्षत्वेऽपूर्वार्थसाक्षात्कारित्वाभावः स्यात् ।
२० देशकालेत्याद्यप्ययुक्तमुक्तम् ; यतो देशादिभेदेनाप्यध्यक्षं चक्षुःसम्बद्धमेवार्थ प्रकाशयत्प्रतीयते । न च प्रत्यभिज्ञा तं प्रकाशयति पूर्वोत्तरविवर्त्तवत्यैकत्वविषयत्वात्तस्याः । वर्तमानश्चायं चक्षु:सम्बद्धः प्रसिद्धः।
१ ज्ञानम् । २ स्मरणानन्तरमिन्द्रियमर्थग्रहणाय न प्रवर्तते इत्युक्ते आह । ३ मरणोत्तरकालम् । ४ दुष्टं भवति । ५ राजकीयं लौकिकं वचनं न विद्यते येन । स्मरणादिन्द्रियस्य प्रवर्त्तनं वा केनचिद्वा न विचार्यते येन । इन्द्रियं वा दुष्टं न भवति येन कारणेन। ६ प्रत्यक्षस्मरणगृहीतग्राहित्वात्प्रत्यभिज्ञानं प्रत्यक्षमप्रमाणं स्यादित्यारेकायामाह । ७ तिर्यक्सामान्यम् । ८ आदिना गुणः । ९ भेदेन । १० स्मरणप्रत्यक्षरूपात् । ११ कथं पूर्वबोधाद्भदेन प्रतीयते इत्युक्ते आह। १२ अवस्थाभेदेन । १३ प्रत्यभि-- शानलक्षणप्रत्यक्षप्रमाणस्य। १४ प्रत्यभिज्ञानलक्षणप्रत्यक्षस्य । १५ पूर्वादिपर्यायः । १६ आय। १७ यसः । १८ भासः। १९ यसः । २० तासः । २१ कासः। २२ यसः। २३ बसः । २४ सन्दिग्धानकान्तिकत्वे उद्भाविते इदं वाक्यं परिहारः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org