________________
२६०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरिक इत्यप्यसाम्प्रतम्; यतो 'भावनाबलाद् ज्ञानं वैशद्यमनुभवति' इत्येतावन्मात्रेण तज्ज्ञानस्य दृष्टान्तोपपत्तेः । न चाशेषदृष्टान्तधर्माणां साध्यधर्मिण्यापादनं युक्तं सकलानुमानोच्छेदप्रसङ्गात् । न चाशेषज्ञज्ञानं क्रमेणाशेषार्थग्राहीष्यते येन तत्पक्षनिक्षिप्तदोषोप५निपातः; सकलावरणपरिक्षये सहस्रकिरणवद्युगपन्निखिलार्थोद्द्योतनखभावत्वात्तस्य कारणक्रमव्यवधानातिवर्तित्वाच ।
यञ्चोक्तम्-युगपत्परस्परविरुद्धशीतोष्णाद्यनामेकत्र ज्ञाने प्रतिभासासम्भवः, तदप्यसारम् । तत्र हि तेषामभावादप्रतिभासः, ज्ञानस्यासामर्थ्याद्वा ? न तावदभावात् । शीतोष्णाद्यर्थानां सक१० सम्भवात् । ज्ञानस्यासामर्थ्यादित्यसत्, परस्परविरुद्धानामन्धकारोद्योतादीनामेकत्र ज्ञाने युगपत्प्रतिभाससंवेदनात् । सकृदेकत्र विरुद्धार्थानां प्रतिभासासम्भवे 'यत्कृतकं तदनित्यम्' इत्यादिव्याप्तिश्च न स्यात्, साध्यसाधनरूपतया तयोविरुद्धत्व
सम्भवात् । नाप्येकत्र तेषां प्रतिभासे तज्ज्ञानस्य प्रतिनियतार्थ१५ग्राहकत्वविरोधः; अन्धकारोद्योतादिविरुद्धार्थग्राहिणोऽपि प्रतिनियतार्थग्राहकत्वप्रतीतेः ।
यच्चान्यदुक्तम्-एकक्षण एवाशेषार्थग्रहणाद्वितीयक्षणेऽशः स्यात् । तदप्यसम्बद्धम् । यदि हि द्वितीयक्षणेऽर्थानां तज्ज्ञानस्य चाभावस्तदाऽयं दोषः । न चैवम्, अनन्तत्वात्तद्वयस्य । पूर्व हि २०भाविनोऽर्था भावित्वेनोत्पत्स्यमानतया प्रतिपन्ना नवर्तमानत्वेनोत्पन्नतया वा। साप्युत्पन्नता तेषां भवितव्यतया प्रतिपन्ना न भूततया। उत्तरकालं तु तद्विपरीतत्वेन ते प्रतिपन्नाः। यदा हि यद्धर्मविशिष्टं वस्तु तदा तज्ज्ञाने तथैव प्रतिभासते नान्यथा विभ्रमप्रसङ्गात् इति कथं गृहीतग्राहित्वेनाप्यस्याप्रामाण्यम् ? २५ यच्चेदं परस्थरागादिसाक्षात्करणाद्रागादिमानित्युक्तम् । तद्प्ययुक्तम् । तथापरिणामो हि तत्त्वकारणं न संवेदनमात्रम् , अन्यथा 'मद्यादिकमेवंविधरसम्' इत्यादिवाक्यात्तच्छ्रोत्रियो यदा प्रतिपद्यते तदाऽस्यापि तद्रसास्वादनदोषः स्यात् । अरसनेन्द्रियजत्वात्तस्यादोषोयम्; इत्यन्यत्रापि समानम् । न हि सर्व
१ प्राप्नोति । २ सर्वशशाने। ३ जैनैः । ४ धूपदहनाथवयविनि। ५ आदिपदेनाहिनकुलादीनां च। ६ कृतकत्वानित्यत्वयोः। ७ अशत्वलक्षणः। ८ भाविनोऽर्थाः। ९ सर्वशज्ञाने। १० उत्पत्स्यमानतादिनिरूपणप्रकारेण। ११ सर्वशशानस्य । १२ रागादिरूपतया। १३ तत्त्वस्य रागादिमत्वस्य । १४ जानाति । १५ मधादिशानस्य । १६ सर्वशशानेपि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org