________________
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० ज्ञानस्मृतयो वितनुकरणाः पुरुषाः सन्ति, तस्यैव सर्वथाs. प्रसिद्धः। सिद्धौ वा खकृतकर्मवशाद्विशिष्टज्ञानान्तरेषू(न्तरो)त्पः त्तेस्तेषां कथं वितनुकरणत्वं प्रलुप्तज्ञानस्मृतित्वं वा? सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकश्च हेतुः। ५ किञ्च, अन्योपदेशपूर्वकत्वमात्रे साध्ये सिद्धसाध्यता; अनादेर्व्यवहारस्याशेषपुरुषाणामन्योपदेशपूर्वकत्वेनेष्टत्वात् । ईश्वरोपदेशपूर्वकत्वे तु साध्येऽनैकान्तिकता, अन्यापि तत्सम्भवात् । साध्यविकलता च दृष्टान्तस्य । न चास्योपदेष्टुत्वसम्भवो विमुं. खत्वान्मुक्तात्मवत् । तञ्च वितनुकरणतयोपगमात्प्रसिद्धम् ।.. १० 'स्थित्वा प्रवृत्तेः' इति चेश्वरेणैवानकान्तिकम्, स हि क्रमव.
कार्येषु स्थित्वा प्रवर्तते न च चेतनान्तराधिष्ठितोऽनवस्थाप्रसङ्गात् इति। - अनयैव दिशा 'सप्तभुवनान्येकबुद्धिमन्निर्मितानि एकवस्त्वंन्तगेतत्वादेकावसंथान्तर्गतापवरकवत्' इत्यादिपरकीयप्रयोगोऽ. १५ भ्यूह्यः । न ह्येकावसथान्तर्गतानामपवरकादीनामेकसूत्रधारनिर्मितत्वनियमः येनेश्वरः सकलभुवनैकसूत्रधारः सिद्धयेत्, अनेकसूत्रधारनिर्मितत्वस्याप्युपलम्भात्।।...
एकाधिष्ठाना ब्रह्मादयः पिशाचान्ताः परस्परातिशयवृत्तित्वात्, इह येषां परस्परातिशयवृत्तित्वं तेषामेकायत्तता दृष्टा २० यथेह लोके गृहग्रामनगरदेशाधिपतीनामेकस्सिन्सार्वभौमनर
पतौ,तथा भुजगरक्षोयक्षप्रभृतीनां परस्परातिशयवृत्तित्वं च, तेन मन्यामहे तेषामेकस्मिन्नीश्वरे पारतन्यम्; इत्यसम्यक् अत्र हि 'ईश्वराख्येनाधिष्ठायकेनैकाधिष्ठानाः' इति साध्येऽनैकोन्तिकता
हेतोविपर्यय बाधकप्रमाणाभावात् प्रतिबन्धीसिद्धेः। दृष्टान्तस्य च २५ साध्यविकलता । "अधिष्ठायकमात्रेण साधिष्ठानाः' इति साध्ये सिद्धसाध्यता, स्वनिकायखामिनः शक्रादेर्भवान्तरोपात्ताऽदृष्टस्य चाधिष्ठायकतयाभ्युपगमात्।।
१ प्रलयकालसमये एव न तु पश्चात् । २ परोपदेशरहिते मैथुनादिव्यवहारवति पुंसि । ३ (हेतोः)। ४ ईश्वरोपदेशं विनापि । ५ व्यवहारे प्रत्यर्थनियतत्वस्य । ६. पुत्रादीनां मात्राथुपदेशपूर्वकल्वेनेश्वरोपदेशपूर्वकत्वाभावात् । ७ विगतमुखत्वात् । ८ साधनम् । ९ आकाश। १० मन्दिर। ११ ईश्वराश्रिताः कार्यकरणे। १२ सन्दिग्धानकान्तिकता । १३ विपक्षे कदाचित्स्वतन्त्रेषु गृहग्रामनगरदेशाधिपतिषु । १४ ईश्वराख्येनकाधिष्ठायकेन परस्परातिशयवृत्तित्वस्याविनाभावासिद्धः। १५ सार्वभौमनरपतौ ईश्वरप्रेरणत्वासिद्धेः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org