________________
६
:
३२२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० चेत् ; तर्हि सहजस्याभिसंस्कारिकस्य च सत्त्वदर्शनस्याभावात्तदैवें तन्मूलरागादिनिवृत्तेर्मुक्तिः स्यात् । भ्रान्तत्वे चास्य प्रत्यक्षस्याशेषस्यापि भ्रान्तत्वप्रसङ्गः, बाह्याध्यात्मिकभावेष्वेकत्वग्राहकत्वेनैवा. शेषप्रत्यक्षाणां प्रवृत्तिप्रतीतेः । तथा च प्रत्यक्षस्याभ्रान्तत्वविशे५षणमसम्भाव्यमेव स्यात् । समर्थयिष्यते च प्रत्यभिज्ञानप्रत्यय. स्यानारोपितार्थग्राहकत्वमभ्रान्तत्वं च । तन्नैकत्वाभावः । अनु. भूयमानस्यापि चैकत्वस्यानेकत्वेन विरोधे ग्राह्यग्राहकसंवित्तिलक्षणविरुद्धरूपत्रयाध्यासितज्ञानस्य, अर्थवलक्षणस्य चैकदा
खपरकार्यकर्तृत्वाकर्तृत्वलक्षणविरुद्धधर्मद्वयाध्यासितस्य एकत्व१०विरोधः स्यात् ।
यच्चान्यत्-रागादिमतो विज्ञानान्न तद्रहितस्यास्योत्पत्तिरित्याधुक्तम् । तदप्यसाम्प्रतम् ; रागादिरहितस्याखिलपदार्थविषयविज्ञानस्याशेषज्ञसाधनप्रस्तावे प्रतिपादितत्वात् । न च बोधाद्बोध
रूपतेति प्रमाणमस्ति; इत्यप्ययुक्तम्; विलक्षणकारणाद्विलक्षण१५ कार्यस्योत्पत्यभ्युपगमे अचेतनाच्छरीरादेश्चैतन्योत्पत्तिप्रसङ्गाचा
किमतानुषङ्गः। प्रसोधितश्च परलोकी प्रागित्यलमतिप्रसङ्गेन । - यच्चाभ्यधायि-सुषुप्तावस्थायां विज्ञानसद्भावे जाणवस्थातो न विशेषः स्यात् । तदप्यभिधानमात्रम् । यतस्तदा विज्ञानसद्भावेपि
अतिनिद्रयाभिभूतत्वान्न जाग्रदवस्थातोऽविशेषः, मत्तमूर्च्छिता२० द्यवस्थायां मदिराद्युत्पादितमदंवेदनायुभिभूतविज्ञानवत् ।
ननु कोयं मिद्धेनाभिभवः? ज्ञानस्य नाशश्चेत् कथं तस्य सत्त्वम् ? तिरोभावश्चेत्, न; स्वपरप्रकाशरूपज्ञानाभ्युपगमे तस्याप्यसम्भवात्; इत्यप्यचर्चिताभिधानम् ; मणिमन्त्रादिनाग्यादिप्रतिवन्धे
शरावादिना प्रदीपादिप्रतिबन्धे च समानत्वात्। न हि तंत्राप्यन्या२५ देनाशः प्रतिबन्धः, प्रत्यक्षविरोधात् । नापि तिरोभावः; स्वपरप्र
काशखभावस्य स्फोटादिकार्यजननसमर्थस्य तिरोभावस्याप्यस
- १ ग्राम्यजनसम्बन्धिनः। २ पण्डितजनसम्बन्धिनः। ३ जीव । ४ प्रत्यभिज्ञानस्य। ५ क्षणिकत्वनिश्चयसमये एव । ६ सौगतस्य । ७ प्रत्यक्षं कल्पनापोढमभ्रान्तमित्यत्र सूत्रे। ८ किञ्च । ९ सुखदुःखनानालक्षणोपलम्भेन। १० नील. स्खलक्षणस्य । ११ उत्तरनीलादिक्षणस्य । १२ अर्थान्तरपीतादेः। १३ अचेतनादा. स्मनः। १४ ज्ञानलक्षणस्य । १५ दूरस्थितेन चार्वाकेणोक्तमस्मदीयमतमेवास्तु । तत्राह । १६ सुप्तावस्था ज्ञानवती आत्मनः अवस्थात्वान्मत्तमूच्छिताद्यवस्थावत् । १७ मत्तता। १८ पीडा। १९ विषयपीडा । २० सुषुप्तावस्थायाम् । २१ मणिमत्रशरावादिना अग्निप्रदीपप्रतिबन्धे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org