________________
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० मिथ्यादर्शनादित्रयात्मकं न पुनर्मिथ्याज्ञानमात्रात्मकम् , तच्चैकस्मात्सम्यग्ज्ञानमात्रात्कथं व्यावर्त्तत इत्युक्तं सर्वज्ञसिद्धिप्रस्तावे।
यच्चान्यदुक्तम्-नित्यनैमित्तिकानुष्ठानं केवलज्ञानोत्पत्तेः प्राक काम्यनिषिद्धानुष्टानपरिहारेण ज्ञानावरणादिदुरितक्षयनिमित्त५त्वेन केवलज्ञानप्राप्तिहेतुः; तदिष्टमेवास्माकम् । . आनन्दरूपता तु मोक्षस्याभीष्टैव । एकान्त नित्यता तु तस्याः प्रतिषिध्यते । चिद्रूपतावदानन्दरूपताप्येकान्तनित्या; इत्यप्य. युक्तम् ; चिद्रूपताया अप्येकान्तनित्यत्वासिद्धेः, सकलवस्तुखभा. वानां परिणामिनित्यत्वेनाग्रे समर्थयिष्यमाणत्वात् ।। १० अथानित्यत्वे तस्याः तत्संवेदनस्य चोत्पत्तिकारणं वक्तव्यम् । ननूक्तमेव प्रतिबन्धापायलक्षणं तत्कारणं सर्वज्ञसिद्धिप्रस्तावे। आत्मैव हि प्रतिबन्धकापायोपेतो मोक्षावस्थायां तथाभूतज्ञानसुखादिकारणम्, घटाद्यावरणापायोपेतप्रदीपक्षणवेत् वपर. प्रकाशकारप्रदीपक्षणोत्पत्तो, तदुत्पादन[ख]भावस्यान्यापेक्षा. १५योगात् । यद्धि यदुत्पादनस्वभावं न तत्तदुत्पादनेऽन्यापेक्षम्
यथान्त्या कारणसामग्री खंकार्योत्पादने, तदुत्पादनखभावश्चातीन्द्रियज्ञानसुखाद्युत्पत्तौ प्रतिबन्धकापायोपेत आत्मेति । संसारावस्थायामप्युपलभ्यते-चाँसीचन्दनकल्पानां सर्वत्र समवृत्तीनां विशिष्टध्यानादिव्यवस्थितानां सेन्द्रियशरीरव्यापाराऽजन्यः पर. २० माल्हादरूपोऽनुभवः । अस्यैव भावनावशादुत्तरोत्तरावस्थामासादयतः परमकाष्ठा गतिः सम्भाव्यत एव ।
आनन्दरूपताभिव्यक्तिश्चानाद्यऽविद्याविलयात्; इत्यभीष्टमेव; अष्टप्रकारपारमार्थिककर्मप्रवाहरूपाऽनाद्यविद्याविलयाद् अनन्त
सुखसंशानादिखरूपप्रतिपत्तिलक्षणमोक्षावाप्तेरभीष्टत्वात् । २५ विशुद्धज्ञानसन्तानोत्पत्तिलक्षणोऽप्यसौ मोक्षोऽभ्युपगम्यते। स तु चित्तसन्तानः सौन्वयो युक्तः। बद्धो हि मुच्यते नाबद्धः ।
१ चतुर्थपरिच्छेदे । २ अतीन्द्रिय । ३ एव । ४ घटस्थप्रदीपवत् । ५ उत्तर । ६ भात्मनः। ७ इन्द्रियवनितादेः। ८ प्रतिबन्धकापायोपेत आत्मा धी अतीन्द्रिय. शानमुखाधुत्पत्तो अन्यं नापेक्षते इति साध्यं, तदुत्पादनस्वभावत्वादिति शेषः। ९ अन्त्यतन्तुसंयोगः । १० पटलक्षणस्य । ११ स प्रसिद्ध उत्पादनस्वभावो यस्यास्मनः । ११ असिद्धत्वे हेतोरुद्भाविते परिहारमाह । १३ कुठार। १४ तुल्यानाम् । १५ शत्रुमित्रयोः । १६ भादिना दानम् । १७ मेदः । १८ निश्चीयते । १९ प्राप्ति । २० बौद्ध विशेषैरभ्युपगतः। २१ अनस । २१ सदग्यः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org