________________
३२४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० भावोऽवसीयते; ननु तद्दशाभाविज्ञानयोः सुषुप्ताद्यवस्थाभाविज्ञानं नोपलब्धिलक्षणप्राप्तम्, तत्कथं ताभ्यां तदभावोऽवसीयेते? अन्यथाऽदृष्टस्यापि परलोकादेरभावोऽध्यक्षत एव स्यात् । तथा च "प्रमाणेतरसामान्यस्थितेः" [ ] इत्यार्थेऽसङ्गतम् । ५ नापि पार्श्वस्थोन्यस्तत्र तदभावं प्रतिपद्यते; कारणखभावव्या. पकानुपलब्धेविरुद्धविधेर्वा तदभावाविनाभाविनो लिङ्गस्यात्रानुपलब्धेः । न तत्र विज्ञानसद्भावेपि लिङ्गाभावः समान इत्यभि. धातव्यम् । वात्मनि स्वसंविदितज्ञानाविनाभावित्वेनाऽवधारितस्य प्राणापानशरीरोष्णताकारविशेषादेस्तत्सद्भावावेदिनो लिङ्गस्या१० त्रोपलब्धेः, जाग्रदशायामप्यन्यचेतोवृत्तस्तद्व्यतिरेकेणान्यतोऽ. प्रतीतेः।
ननु द्विविधोत्र प्राणादिः चैतन्यप्रभवो जाग्रद्दशायाम् , प्राणादिप्रभवश्च सुषुप्ताद्यवस्थायामिति । तत्र चैतन्यप्रभवप्राणादेर्जा
ग्रहशायां चैतन्यानुमानं युक्तम्, न पुनः प्राणादिप्राणादेः । न १५ खलु गोपालघटादौ धूमप्रभवधूमादयनुमानं दृष्टम्, अग्नि
प्रभवधूमादेव तद्दर्शनात्; इत्यप्यसङ्गतम्। सुषुप्तेतरावस्थयोः प्राणादेर्विशेषाऽप्रतीतेः । यथैव हि सुषुप्तः प्रीणिति तथेतरोपि, अन्यथा 'किमयं सुषुप्तः किं वा जागर्ति' इति सन्देहो न स्यात् । यदि चैते सुषुप्तस्य चैतन्यप्रभवा न स्युः किन्तु प्राणा२०दिप्रभवाः; तर्हि जाग्रतः परवञ्चनाभिप्रायेण सुषुप्तव्याजेनाव. स्थितस्य तादृशामेव तेषां भावो न स्यात् । न ह्यग्नेर्जायमानो धूमः प्रयत्नशतैरपि धूमादन्यतो वा जायते धूमप्रभवो वाग्नेरिति । दृश्यन्ते च ते यादृशा एव सुषुप्तस्य तादृशा एवास्यापि । तन्नते भिन्नकारणप्रभवाः । चैतन्यतैरप्रभवांश्च प्राणादीन् विवेचयन्वीत३० रागेतरप्रभवव्यापारादीनपि विवेचयतु । तथा च
"सरागा अपि वीतरागवञ्चेष्टन्ते वीतरागाश्च सरागवदिति वीतरागेतरविभागो निश्चेतुमशक्यः।"[ ] इति प्लवते।
१ तादिः। २ यथा घट उपलब्धिलक्षणप्राप्तो भवति तदा पश्चादन्यत्र घटाभावोऽवसीयते । ३ अनुपलब्धिलक्षणप्राप्तस्य प्रत्यक्षाघभावः स्यादि । ४ प्रतिषेधाच्च कस्यचिदितिपर्यन्तम् । ५ अन्यपुरुषैः। ६ आत्मावस्थायाम् । ७ उभयोर्मध्ये। ८ प्रभव । ९ पुरुषः। १० श्वासोच्छासं गृह्णाति । ११ जीवति । १२ जाग्रत् । १३ उभयोः श्वासे विशेषश्चेत् । १४ यतः सादृश्ये एव सन्देहः । अस्ति च सन्देहः। १५ किञ्च । १६ सुषुप्तस्य यादृशः प्राणः। १७ घटादेः। १८ धूमः। १९ न
जायते । २० प्राण । Jain Educationa International For Personal and Private Use Only
www.jainelibrary.org