________________
३१४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० एकसन्तानत्वं च अन्त्यज्ञानेने व्यभिचारि । अथ नेष्यत एवा. न्त्यज्ञानं सेंदाऽऽरम्भात्; तथाहि-मरणशरीरज्ञानमपि ज्ञानान्त. रहेतुर्जाग्रदवस्थाज्ञानं च सुषुप्तावस्थाज्ञानस्यति । नन्वेवं मरणश
रीरज्ञानस्यान्तराभवशरीरशानहेतुत्वे गर्भशरीरज्ञानहेतुत्वे वा ५सन्तानान्तरेपि ज्ञानजनकत्वं किन्न स्थानियतहेतोरभावात् ? अथेष्यते एव उपाध्यायज्ञानं शिष्यज्ञानस्य हेतुः। अन्यस्य कस्मान्न भवति? कर्मवासना नियामिका चेन; तस्या ज्ञानव्यतिरेकेणासम्भवात् । तत्तादात्म्ये हि विज्ञानं बोधरूपतया अविशिष्टं बोधाचं बोधरूपतेत्यै विशेषेण ज्ञानं विद्ध्यात् । १० सुषुप्तावस्थाज्ञानस्य जाग्रवस्थाज्ञानं कारणम्, इत्यप्यसम्भाः
व्यम् । सुषुप्तावस्थायां च ज्ञानाभ्युपगमे जाग्रवस्थातो विशेषो न स्यादुर्भयत्रापि स्वसंविदितज्ञानसद्भावाविशेषात् । मिद्धेनाभिभूः तत्वं विशेषः, इत्यप्यसत्; तस्यापि तद्धर्मतया तादात्म्येनाभि
भावकत्वायोगात् । तद्वयतिरेके तु रूपवेदनोंदिपदार्थखरूपव्यति: १५रिक्तं तत्स्वरूपं निरूप्यताम् । अभिभवश्च यदि विनाशः, कथं
तंत्र ज्ञानस्य सत्त्वं विनाशस्य वा निर्हेतुकत्वम् ? अथ तिरोभावः, न; विज्ञानसत्तैव संवेदनमित्यभ्युपगमे तस्यानुपपत्तेः। अतः सुषुप्तावस्थायां विज्ञानासत्त्वेनान्त्यज्ञानसद्भावादेकसन्ता:
नत्वं व्यभिचारीति । २० यच्चोच्यते-विशिष्टभावनाभ्यासवशाद्रागादिविनाशः; तदप्यसङ्गतम्, निर्हेतुकत्वाद्विनाशस्य अभ्यासानुपपत्तेश्च । अभ्यासो
१ बौद्धानां मते योगिनां मरणे चस्मचित्तमुत्तरचित्तं नोत्पादयतीति भावः । २ योगिचरमचित्तेन । ३ मया। ४ पूर्व विज्ञानेन विज्ञानान्तरस्य । ५ जननात् । ६ गर्भशरीरज्ञानस्य । ७ ( जाग्रदवस्थाशानवदिति सुष्ठुतरम् ) (?)। ८ जैनमतमङ्गीकृत्य योगं प्रति सौगतेनोक्तम् । ९ मध्यभवशरीरस्य कार्मणस्य । १० बौद्धेन । ११ वैशे. षिकः । १२ शिष्यात्। १३ बौद्धः। १४ वासना ज्ञानरूपैव । १५ अदृष्टं क्रिया च। १६ कथं नियामिका ? मरणशरीरशानादन्तराभवशरीरशानं गर्भशरीरशानं चोत्पद्यते उपाध्यायज्ञानाच्छिष्यज्ञानं चेति । १७ वैशेषिकः। १८ विज्ञानस्य । १९ साधारणम् । २० विशेषरहितम् । २१ हेतोः। २२ सन्तानान्तरेपि । २३ उत्तरम्। २४ पूर्वज्ञानं कर्तृ। २५ बौद्धेन त्वया। २६ सुषुप्तावस्थाजाग्रदवस्थयोः । २७ सुषुप्तावस्थाजाग्रदवस्थयोः। २८ अतिजाड्येनातिनिद्रया वा। २९ पराभवः । ३० बौद्धानां मते यथा नर्मल्यादिगुणो शानस्य तथा मिद्धादिदोषोपि ज्ञानस्य धर्म इति। ३१ शानात् । ३२ मिद्धस्य । ३३ आदिशब्देन विज्ञानसंशासंस्कारा गृह्यन्ते । ३४ सुषुप्तावस्थायाम् । ३५ विज्ञानस्य (तिरोभावस्य )। ३६ बौद्धेन । ३७ किञ्च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org