________________
सू० २०१२] मोक्षस्वरूपविचारः
३१३ मस्योपादानात् । अत्यन्तप्रियवुद्धिविषयत्वमप्यसिद्धम् ; दुःखितायामप्रियबुद्धरपि भावात् ।
'आनन्दं ब्रह्मणो रूपम्' इत्याद्यागमो नित्यसुखसद्भावावेदकः; इत्यप्यसमीचीनम् । तस्यैतदर्थत्वासिद्धेः । आनन्दशब्दो ह्यात्यन्तिकदुःखाभावे प्रयुक्तत्वाद्गौणः । दृष्टंश्च दुःखाभावे सुखशब्द-५ प्रयोगः, यथा भाराकान्तस्य ज्वरादिसन्तप्तस्य वा तदपाये।
किञ्च, आत्मस्वरूपातन्नित्यसुखमव्यतिरिक्तम्, तद्व्यतिरिक्तं वा? प्रथमपक्षे आत्मवरूपवत् सर्वदा सुखसंवित्तिप्रसङ्गाबद्ध मुक्तयोरविशेषप्रसङ्गः। __ अनाद्यविद्याच्छादितत्वान्न स्वप्रकाशानन्दसंवित्तिः संसारिणः, १० इत्यप्यपेशलम् ; आच्छाद्यते ह्यप्रकाशस्वरूपं वस्तु, यत्तु प्रकाशखरूपं तत्कथमन्येनाच्छायेत? मेघादिना त्वादित्यादेराच्छादनं युक्तम् तस्यातोऽर्थान्तरत्वात् , मूर्तस्य मूर्त्तनाच्छादनापत्तेः (दनोपपत्तेः)। अविद्यायास्तु सत्वान्यत्वाभ्यामनिर्वचनीयतया तुच्छवभावत्वात् न वप्रकाशानन्दाच्छादकत्वम् । तन्नाद्यः१५ पक्षो युक्तः।
द्वितीयपक्षोप्ययुक्तः, नित्यसुखस्यात्मनोऽर्थान्तरस्य प्रत्यक्षादेः प्रतिपादकस्य प्रतिषिद्धत्वाद्वाधकस्य च प्रदर्शितत्वात् । तन्न परमानन्दाभिव्यक्तिर्मोक्षः।
नापि विशुद्धज्ञानोत्पत्तिः; रागादिमतो विज्ञानात्तद्रहितस्या-२० स्योत्पत्तेरयोगात् । यथैव हि बोधाद्वोधरूपता ज्ञानान्तरे तथा रागादेरपि स्यात्तादात्म्यात् , अन्यथा तादात्म्याभावः स्यात् । न च 'बोधादेव बोधरूपता' इति प्रमाणमस्ति; विलक्षणादपि कारणाद्विलक्षणकार्यस्योत्पत्तिदर्शनात् । बोर्धेस्य च बोधान्तरहेतुत्वे पूर्वकालभावित्वं समानजातीयत्वमेकसन्तानत्वं वा न हेतुः, २५ व्यभिचारात्; तथाहि-पूर्वकालभावित्वं तत्समातक्षणैः, समानजातीयत्वं च सन्तानान्तरज्ञानैर्व्यभिचारि, तेषां हि पूर्वकालभावित्वे तत्समानजातीयत्वे च सत्यपि न विवक्षितज्ञानहेतुत्वम् ।
१ अवस्थायाम् । २ आगमे। ३ बद्धः संसारी। ४ ब्रह्मणः सकाशात् । ५ विद्यमानत्वाविद्यमानत्वाभ्याम् । ६ सौगतमाशय । ७ मोक्षः। ८ पूर्वशानात। ९ उत्तरशाने । १० बोधस्य रागादिना । ११ रागादिर्यदि न स्यात् । १२ बीजादेः। १३ अङ्करादेः। १४ प्रथमस्य । १५ एकात्मत्वम् । १६ उत्तरशानजनकप्राक्तनबोधस्य । १७ पुरुषान्तरबोधैः पूर्वकालभाविभिः। १८ ज्ञानत्वेन समानजातीयत्वम् । १९ पुरुषान्तरबोधैः पूर्वकाळभाविभिः । २० पूर्वज्ञानस्य । २१ विवक्षितमुत्तरम् ।
प्र.क० मा० २७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org