________________
सू० २।१२ ]
कवलाहारविचारः
३०१
इत्यभिधानात् । द्वितीयपक्षे तु त्रिदशादिभिर्व्यभिचारः; तेषां कवलाहाराभावेपि देहस्थितिसम्भवात् । अथ 'औदारिकशरीरस्थितित्वात्' इति विशेष्योच्यते । तथाहि या या औदारिकशरीरस्थितिः सा सा कवलाहारपूर्विका यथास्मदादीनाम्, औदारिकशरीरस्थितिश्च भगवतः इति न त्रिदशशरीरस्थित्या ५ व्यभिचारः इत्यप्यसारम्, तदीयौदारिकशरीरस्थितेः परमौ
दारिकशरीरस्थितिरूपतयाऽस्मदाद्यौदारिकशरीरस्थितिविलक्षणत्वात् । तस्याश्च केवलावस्थायां केशादिवृद्ध्यभाववद्धत्त्यभावोदयविरुद्ध एव ।
कथं चैवं वादिनो भगवत्प्रत्यक्षमतीन्द्रियं स्यात् ? शक्यं हि १० वक्तुम्-तत्प्रत्यक्षमिन्द्रियजं प्रत्यक्षत्वादस्मदादिप्रत्यक्षवत् । तथा सरागोऽसौ वक्तृत्वात्तद्वदेव । न ह्यस्मदादौ दृष्टो धर्मः कैश्चित्तत्र साध्यः कैश्विन्नेति वक्तुं युक्तम्, स्वेच्छाकारित्वानुषङ्गात् । तथा च न कश्चित्केवली वीतरागो वा, इति कस्य भुक्तिः प्रसाध्यते ? यदि चैकत्रे तच्छरीरस्थितेः कवलाहारपूर्वकत्वोपलम्भात्सर्वत्र १५ तथाभावः साध्यते तर्हि घटादौ सन्निवेशादेर्बुद्धिमत्पूर्वकत्वोप लम्भात्तन्वादीनामप्यतो बुद्धिमत्पूर्वकत्वसिद्धिः स्यात् । द्विचन्द्रादिप्रत्ययस्य निरालम्बनत्योपलम्भाच्चाखिलप्रत्ययानां निरालम्बनत्वप्रसङ्गः स्यात् । अथ यादृशं बुद्धिमत्कारणव्याप्तं सन्निवेशादि घटादौ दृष्टं तादृशस्य तन्वादिष्वभावान्नातस्तेषां तत्पूर्वकत्व - २० सिद्धिः; तर्हि या शमौदारिकशरीरस्थितित्वमस्मदादौ तद्भुक्तिपूर्वकं दृष्टं तादृशस्य भगवत्परमोदारिकशरीरस्थितावभावान्नातस्तस्यास्तद्भक्तिपूर्वकत्वसिद्धिः । यथा च प्रत्ययत्वाविशेषेपि कस्यचिन्निरालम्बनत्वमन्यैस्यान्यत्वम्, तथा च तच्छरीरस्थितेस्तत्त्वाविशेषेपि निराहारत्वमितरश्चेष्यतामविशेषात् ।
२५
अथ 'अन्यादशमौदारिकशरीरस्थितित्वमन्या दशाश्च पुरुषा न सन्ति' इत्युच्यते तर्हि मीमांसकमतानुप्रवेशः । अतो यथान्या
१ औदारिकशरीरस्थितित्वात्कवलाहारित्वमेवेति । २ कवलाद्दारलक्षणः । ३ सरागवसेन्द्रियत्वलक्षणः । ४ भगवतः सरागत्वे तत्प्रत्यक्षस्येन्द्रियजत्वे च । ५ अस्म• दादौ । ६ अक्रियादर्शिनः कृतबुद्ध्युत्पादकत्वम् । ७ सप्तधातुमलोपेतम् । ८ तस्य = कवलस्य । ९ औदारिकशरीरस्थितित्वादिति हेतोः । १० कवलस्य । ११ द्विचन्द्रादिप्रत्ययस्य । १२ घटादिप्रत्ययस्य । १३ सालम्बनत्वम् । १४ आहारपूर्वकत्वम् । १५ परमैौदारिकम् । १६ अनाहारिणः । १७ मीमांसकमपि सर्वशलक्षणोऽन्यादृशः पुरुषो नास्ति
प्र० क० मा० २६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org