________________
सू० २।१२]
मोक्षस्वरूप विचारः
३०९
ननु तत्त्वज्ञानिनां तत्त्वज्ञानादेव सञ्चितकर्मप्रक्षय इत्यप्यागमोस्ति
"यथैधांसि समिद्धोग्निर्भस्मसात्कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा" [ भगवद्गी० ४।३७ ] इति ।
तथा च विरुद्धार्थत्वादुभैयोरेकत्रार्थे कथं प्रामाण्यम् ? इत्ययुक्तम् ; तत्त्वज्ञानस्य साक्षात्तद्विनाशे व्यापाराभावात् । तद्धि कर्मसामर्थ्यावगमतोऽशेषशरी रोत्पत्तिद्वारेणोपभोगात्कर्मणां विनाशे व्याप्रियते इत्यग्निरिवोपचर्यते ज्ञानमित्यागमव्याख्यानादविरोधः । न चैतेद्वाच्यम्- 'तत्त्वज्ञानिनां कर्मविनाशस्तत्त्वज्ञानादितरेषां १० तूपभोगात्' इति; ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणाभावात्, फलोपभोगातु तत्प्रक्षये तत्सङ्गावात् ।
ど
७
अन्ये तु मिथ्याज्ञानजनितसंस्कारस्य सहकारिणोऽभावाद्विद्यमानान्यपि कर्माणि न जन्मान्तरे शरीराद्यारम्भकाणीति मैन्यन्तेः तेषामनुत्पादित कार्य स्यादृष्टस्याप्रक्षयान्नित्यत्वसंङ्गः । १५ अनागतयोर्धर्माधर्मयोरुत्पत्तिप्रतिषेधे तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठानं किमर्थमिति चेत् ? प्रत्यवायपरिहारार्थम् । न च मिथ्याज्ञानाभावे दुष्कर्मणोऽभावात् कस्य परिहारार्थं तदित्यभिधातव्यम्; यतो मिथ्याज्ञानाभावे निषिद्धाचरण निमित्तस्यैव प्रत्यवायस्याभावो न विहिताननुष्ठाननिमित्तस्य,
" अकुर्वन्विहितं कर्म प्रत्यवायेन लिप्यते” [ गमात् । ततस्तदनुष्ठानं तत्परिहारार्थं युक्तम् । तदुक्तम् —
] इत्या
“नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ।
२३
२४
मोक्षार्थी न प्रवर्त्तेत तत्र काम्यनिषिद्धयोः ॥ १ ॥
[ मी० श्लो० सम्बन्धा० लो० ११० ]
४ मोक्षोपायलक्षणे ।
१ दीप्तः । २ तथाप्यागमसद्भावे च । ३ आगमयोः । ५ अग्रे वक्ष्यमाणम् । ६ अतत्त्वज्ञानिनाम् । ७ कुत: ? । ८ प्रारब्धशरीर कुर्मवदिति । ९ तस्वशाने समुत्पन्ने सतीति शेषः । १० भावनारूपस्य । ११ इन्द्रियविषयादेश्च । १२ नैयायिक विशेषाः । १३ धर्माधर्मस्य । १४ ततोऽनुभवन प्रकारेणैव मोक्षोऽभ्युपगन्तव्यः । १५ सति । प्रागुक्तन्यायेन । १६ नरस्य । १७ दुष्कर्म | १८ जैनादिना । १९ विप्रवधादि । २० नित्यनैमित्तिकादेः । २१ कर्मणी । २२ काम्यं यागः । २३ निषिद्धं विप्रवधादि । २४ कर्मणोः ।
Jain Educationa International
For Personal and Private Use Only
२०
२५
www.jainelibrary.org