________________
सू० २।१२ ]
प्रकृतिकर्तृत्ववादः
२८९
इतश्चास्ति प्रधानं शक्तिंतः प्रवृत्तेः । लोके हि यो यस्मिन्नर्थे प्रवर्त्तते स तत्र शक्तः यथा तन्तुवायः पटकरणे, प्रधानस्य चास्ति शक्तिर्यया व्यक्तमुत्पादयति, सा च निराधारा न सम्भवतीति प्रधानास्तित्वसिद्धिः ।
कार्यकारणविभागाच्च दृष्टो हि कार्यकारणयोर्विभागः, यथा ५ मृत्पिण्डः कारणं घटः कार्यम् । स च मृत्पिण्डाद्विभक्तस्वभावो घटो मद्योदकादिधारणाहरणसमर्थो न तु मृत्पिण्डः । एवं महदादि कार्य दृष्ट्रा साधयाम: - 'अस्ति प्रधानं यतो महदादिकार्यमुत्पन्नम्' इति ।
इतश्चास्ति प्रधानं वैश्वरूप्यस्याविभागात् । वैश्वरूयं हि लोक - १० त्रयमभिधीयते । तच्च प्रलयकाले क्वचिदविभागं गच्छति । उक्तं च प्राकू - 'पञ्चभूतानि पञ्चसु तन्मात्रेष्वविभागं गच्छन्ति' इत्यादि । अविभागो हि नामाविवेकः । यथा क्षीरावस्थायाम् 'अन्यत्क्षीरमन्यद्दधि' इति विवेको न शक्यते कर्त्तुं तद्वत्प्रलयकाले व्यक्तमिदमव्यक्तं चेदमिति । अतो मन्यामहेऽस्ति प्रधानं यत्र १५ महदाद्य विभागं गच्छतीति ।
अत्र प्रतिविधीयते - प्रकृत्यात्मकत्वे महदादिभेदानां कार्यतया ततः प्रवृत्तिविरोधः । न खलु यद्यस्मात्सर्वथाऽव्यतिरिक्तं तत्तस्य कार्य कारणं वा युक्तं भिन्नलक्षणत्वात्तयोः । अन्यथा तद्यवस्था सङ्कीर्येत । तथा च यद्भवद्भिर्मूलप्रकृतेः कारणत्वमेव भूतेन्द्रिय- २० लक्षणपोडशकगणस्य कार्यत्वमेव, बुद्ध्यहङ्कारतन्मात्राणां पूर्वोत्त रापेक्षया कार्यत्वं कारणत्वं चेति प्रतिज्ञातं तन्न स्यात् । तथा चेदमसङ्गतम् —
"मूलप्रकृति र विकृतिर्महदाद्याः प्रकृति विकृतयः सप्त । पोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥" [ सांख्यका० ३ ] इति । सर्वेषामेव हि परस्परमव्यतिरेके कार्यत्वं कारणत्वं वा प्रस
२५
"
१ महदादिभेदानाम् । २ कार्यप्रवृत्तिः शक्तिपूर्विका प्रवृत्तित्वात्तन्तुवायप्रवृत्तिवत् । ३ महदादिव्यक्तमेककारणपूर्वकं कार्यरूपत्वाद् घटादिवत् । ४ महदाद्यविभागः कचि - दाश्रितः अविभागत्वात्क्षीरे दध्याद्यविभागवत् । ५ एकत्वम् । ६ जैनैः । ७ प्रकृतेः । ८ प्रधानं महदादेः कारणं न भवति तस्मात्सर्वथाऽव्यतिरिक्तत्वात् । महदादि प्रधानकार्यं न भवति तस्मात्सर्वथाऽव्यतिरिक्तत्वात् । ९ भिन्नलक्षणाभावे । १० प्रकृत्यादि कार्यरूपं कार्यरूपान्महदादेरव्यतिरेकात् ।
प्र० क० मा० २५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org