________________
२९६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० बन्धः सिद्धः । नापि यंदात्मक कार्यमुपलभ्यते कारणेनाप्यवश्यं तदात्मना भाव्यम्, अन्यथा महदादौ हेतुमत्त्वानित्यत्वाव्यापित्वादिधर्मोपलम्भात् प्रधानेपि ताद्रूप्यप्रसिद्धिप्रसङ्गाद्धेतोर्विरुद्धतानुषङ्गः। ५ यच्चेदं निदर्शनमुक्तम्-'यथा घटशरावादयो मृजातिसमन्विताः' इति तदप्यसङ्गतम्, साध्यसाधनविकलत्वादस्य । न हि मृत्त्वसुवर्णत्वादिजातिनित्यनिरंशव्याप्येकरूपा प्रमाणतः प्रसिद्धा येन तदात्मककारणसम्भूतत्वं तत्समन्वितत्वं च प्रसि
द्धयेत्, प्रतिव्यक्ति तस्याः प्रतिभासभेदानेदसिद्धेः । विस्तरेण १० चास्याः सिध्यभावं सामान्य विचारप्रस्तावे प्रतिपादयिष्याम इत्यलमतिविस्तरेणे।
तथा 'समन्वयात्' इत्यस्यानेकान्तः; चेतनत्वभोक्तृत्वादिधमैः पुरुषाणाम् , प्रधानपुरुषाणां च नित्यत्वादिधर्मैः समन्वितत्वेपि तथाविधैककारणपूर्वकत्वानभ्युपगमात् । १५ एतेन शक्तितः प्रवृत्तेरित्यायप्यनैकान्तिकत्वादिदोषदुष्टत्वादेककारणपूर्वकत्वासाधनमित्यवसातव्यम् । तथा हि-प्रेक्षावत्कारणमेतेभ्यः प्रसाध्यते, कारणमात्रं वा? प्रथम विकल्पे अनेकान्तः, विनापि हि प्रेक्षावता का खहेतुसामर्थ्यप्रति नियमात्प्रतिनियत.
कार्यस्योत्पत्त्यविरोधात् । न च प्रधानं प्रेक्षावद्युक्तं तस्याचेतन२० त्वात् प्रेक्षायाश्च चेतनापर्यायत्वात् । अथ कारणमात्रं साध्यते,
तर्हि सिद्धसाध्यता। न ह्यस्माकं कारणमन्तरेण कार्यस्योत्पादोऽभीष्टः। कारणमात्रस्य च 'प्रधानम्' इति संज्ञाकरणे न किञ्चिद्विरुध्यतेऽर्थभेदाभावात् ।
किञ्च, शक्तितः प्रवृत्तेरित्यनेन यदि कथञ्चिदव्यतिरिक्तशक्ति३० योगिकारणमात्रं साध्यते; तदा सिद्धसाध्यता । अथ व्यतिरिक्त
१ सत्त्वादि । २ समन्वयादिति हेतुनित्यत्वादिधमोपेते प्रधाने साध्ये प्रयुक्तोऽनित्यत्वादिधर्मोपेतप्रधानप्रसाधनाविरुद्धः । ३ सा नित्यनिरंशव्याप्येकरूपजातिः । ४ तया नित्यनिरंशव्याप्येकरूपजात्या। ५ नित्यनिरंशव्याप्येकरूपजातिनिराकरणविस्तरेण । ६ नित्यनिरंशव्याप्येकरूपजात्या । ७ हेतोः। ८ निरंशत्वादिमिश्च । ९ परेण । १० हेतुद्वयनिराकरणपरेण ग्रन्थेन । ११ हेतुत्रयमपि । १२ नित्यत्वमेषां यतः। १३ हेतुभ्यः । १४ अकृष्यभूरुहादिकं प्रेक्षावत्कारणमन्तरेणापि दृश्यतेऽतः सर्व प्रेक्षावत्कारणपूर्वकं वा नेति सन्दिग्धानेकान्तः। १५ कारणसामान्यम् । १६ जैनानाम् । १७ अस्माभिः कारणमात्रं भवद्भिः प्रधानं प्रतिपाद्यते इत्यत्र । १८ द्रव्यस्वभावेन । १९ कार्यनिष्पादने ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org