________________
२६८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० कार्य कर्तुमजानतः सशरीरस्यापि तत्कर्तृत्वादर्शनात् , जानतो. पीच्छापाये तदनुपलम्भात्, इच्छतोपि प्रयत्नाभावे तदसम्भवात्, तत्रयमेव कारकप्रयुक्तिं प्रत्यङ्गं न शरीरेतरता।
न च दृष्टान्तेऽनीश्वरासर्वज्ञकृत्रिमज्ञानवता कार्यत्वं व्याप्तं ५प्रतिपन्नमित्यत्रापि तथाविधमेवाधिष्ठातारं साधयतीति विशेषविरुद्धता हेतोः इत्यभिधातव्यम्। बुद्धिमत्कारणपूर्वकत्वमात्रस्य साध्यत्वात्।धूमाद्यनुमानेपि चैतत्समानम्-धूमो हि महानसादिदेशसम्बन्धितार्णपार्णादिविशेषाधारेणाग्निना व्याप्तः पर्वतेपि तथा. विधमेवाग्निं साधयेदिति विशेषविरुद्धः । देशादिविशेषत्यागेना. १० ग्निमात्रेणास्य व्याप्तेर्न दोषः इत्यन्यत्रापि समानम् ।
सर्वज्ञता चास्याशेषकार्यकरणात्सिद्धा । यो हि यत्करोति स तस्योपादानादिकारणकलापं प्रयोजनं चावश्यं जानाति, अन्यथा तक्रियाऽयोगात्कुम्भकारादिवत् । तथा "विश्वतश्चक्षुः" [ श्वेता. श्वतरोप० ३३३] इत्यागमादप्यसौ सिद्धः
"द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥२॥"
[भगवद्गी० १५।१६-१७ ] २० इति व्यासवचनसद्भावाच्च ।
न च स्वरूपप्रतिपादकानामप्राण्यम्; प्रमाजनकत्वस्य सद्भा. वात् । प्रमाजनकत्वेन हि प्रमाणस्य प्रामाण्यं न प्रवृत्तिजनकत्वेन, तञ्चेहाँस्त्येव । प्रवृत्तिनिवृत्ती तु पुरुषस्य सुखदुःखसाधनत्वा. ध्यवसाये समर्थस्यार्थित्वाद्भवतः । विधेरङ्गत्वादमीषां प्रामाण्यं २५न स्वरूपार्थत्वात्; इत्यसत्; स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात् ।
तथाहि-स्तुतेः स्वार्थप्रतिपादकत्वेन प्रवर्तकत्वं निन्दायास्तु निवर्तकत्वम्, अन्यथा हि तदर्थापरिज्ञाने विहितेप्रतिषेधेश्व
१ अनित्य । २ क्षित्यादौ। ३ नित्यज्ञानेच्छाप्रयत्नवान्विशेषस्तेन । ४ धूमः । ५ ईश्वरे। ६ ईश्वरः। ७ अनित्यः संसारी जीवसमूहः । ८ नित्य ईश्वरः। ९ देहसम्बन्धीनि पृथिव्यादीनि। १० नित्यः। ११ प्रविश्य। १२ विदधाति । १३ वेदवाक्यानाम् । १४ यथार्थानुभवः प्रमा। १५ वेदवाक्ये। १६ सति । १७ प्रवृत्तेः। १८ वेदवाक्यानाम् । १९ वेदवाक्यानाम् । २० वेदवाक्यानां स्वार्थप्रतिपादकत्वेन प्रवर्तकत्वं निवर्तकत्वं वा नास्ति यदि। २१ वेदवाक्य । २२ उपादेय। २३ निषिद्ध ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org