________________
२७६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० यदप्युक्तम्-व्युत्पन्नप्रतिपत्तॄणां नासिद्धत्वं कार्यत्वादेः; तदप्ययुक्तम् । यतः प्रतिबन्धप्रतिपत्तिलक्षणा व्युत्पत्तिस्तेषाम् , तद्व्यतिरिक्ता वा स्यात् ? प्रथमपक्षे क्षित्यादिगतकार्यत्वादौ प्रकृतसाध्य
साधनाभिप्रेते व्युत्पत्त्यसम्भवः, यथोक्तसाध्यव्याप्तस्य तंत्र तस्या५भावात् । भावे वा सशरीरस्यास्मदादीन्द्रियग्राह्यस्यानित्यबुद्ध्यादिधर्मकलापोपेतस्य घटादौ तव्यापकत्वेन प्रतिपन्नस्यात्र ततः सिद्धिः । न खलु हेतुव्यापकं विहायाव्यापकस्यात्य॑न्तविलक्षणसाध्यधर्मस्य धर्मिणि प्रतिपत्तौ हेतोः सामर्थ्यम् । कारणमात्र
प्रतिपत्तौ तु सिद्धसाध्यता । १० ननु बुद्धिमत्कारणमात्रं ततस्तत्र सिध्यत्पक्षधर्मताबलाद्विशिष्टविशेष(धारमेव सेत्स्यति, निर्विशेषस्य सामान्यस्यासम्भवात्, घटादौ प्रतिपन्नस्य चास्मदादेस्तंन्निर्माणासामर्थ्यात् । नन्वेवं क्षित्यादौ बुद्धिमत्कारणत्वासिद्धिरेव स्यादमदादेस्तन्निर्माणा
सामर्थ्यादन्यस्य च हेतुव्यापकत्वेन कदाचनाप्यप्रतिपत्तेः खरवि. १५षाणवत्, निराधारस्य च सामान्यस्यासम्भवात् । न हि गोत्वा
धारस्य खण्डादिव्यक्तिविशेषस्यासम्भवे तद्विलक्षणमहिष्याद्याश्रितं गोत्वं कुतश्चित्प्रसिद्ध्यति ।
अस्मादृशान्यादृशविशेषपरित्यागेन कर्तृत्वमात्रानुमाने च चेतनेतरविशेषत्यागेन कारणमात्रानुमानं किन्नानुमन्यते ? धूम२० मात्रात्पावकमात्रानुमानवत् । यादृशमेव हि पावकमात्र पैङ्गल्यादिधर्मोपेतं कण्ठाक्षेविक्षेपकादित्वापाण्डुरत्वादिधर्मोपेतधूममात्रस्य प्रत्यक्षानुपैलम्भप्रमाणजनितोहाख्यप्रमाणात्सर्वोपसंहारेण व्यापकत्वेन महानसादौ प्रतिपन्नं तादृशस्यैवान्यत्राप्यतोनुमान
नात्यन्तविलक्षणस्य, व्यक्तिसम्बन्धित्वमात्रस्यैव भेदात् । न च २५ व्यक्तीनामप्यात्यन्तिको भेदो महानसादिवदन्यासामपि दृश्यते
योपगमात् । न च कार्यविशेषस्य कर्तृविशेषमन्तरेणानुपलम्भात् तन्मात्रमपि कर्तृविशेषानुमापकं युक्तम् । तस्य कारणत्वमात्रेणैवाविनाभावनिश्चयात्, धूममात्रस्याग्निमात्रेणाविनाभावनिश्चयवत् ।
१ प्रतिबन्धोऽविनाभावः । २ अक्रियादशिनोपि कृतबुद्धयुत्पादकत्वलक्षणे । ३ क्षित्यादौ । ४ कार्यत्व । ५ क्षित्यादौ । ६ अशरीरसर्वशनित्यशानत्वादिलक्षण । ७ प्रोक्तक्षित्यादिके। ८ बसः । ९ क्षित्यादि । १० सर्वज्ञत्वादिधर्मकलापोपेतस्येश्वरस्य। ११ कार्यत्वेति । १२ नेत्रादि। १३ परोक्ष । १४ स्वीकारेण । १५ पर्वतादौ । १६ जलस्य । १७ महानसाख्य। १८ पर्वतादिरूपव्यक्तीनाम् । १९ उभयत्र । २० भक्रियादर्शिनः कृतबुद्ध्युत्पादकलक्षणस्य । २१ बुद्धिमदर्थलक्षग। २२ कार्यमात्रम् । २३ कार्यमात्रस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org