________________
२६२
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
खच्छतादिवत् , अन्यथा तस्याप्यभावः स्यात् । औपाधिकमेव हि रूपं नश्यति यथा तस्यैव रक्तिमादि । कथं चैवंवादिनो वेदस्यानाद्यनन्तताप्रतिपत्तिस्तत्राप्युक्तविकल्पानामवतारात् ? कथं वा साध्यसाधनयोः साकल्येन व्याप्तिप्रतिपत्तिः, सामान्येन व्याप्ति५प्रतिपत्तावन्यनाद्यनन्तसामान्यप्रतिपत्तावुक्तदोषानुषङ्ग एव ।
यच्चोक्तम्-'कथं चासौ तत्कालेप्यऽसर्वातुं शक्यते? तदपि फल्गुप्रायम् ; विषयापरिज्ञाने विषयिणोप्यपरिज्ञानाभ्युपगमे कथं जैमिन्यादेः सकलवेदार्थपरिज्ञाननिश्चयोऽसकलवेदार्थविदाम् ?
तदनिश्चये च कथं तद्व्याख्यातार्थाश्रयणादग्निहोत्रादावनुष्ठाने १० प्रवृत्तिः ? कथं वा व्याकरणादिसकलशास्त्रार्थापरिज्ञाने तदर्थज्ञतानिश्चयो व्यवहारिणाम् ? यतो व्यवहारप्रवृत्तिः स्यात् ।
सुनिश्चितासम्भवद्बाधकप्रमाणत्वाचाशेषार्थवेदिनो भगवतः सत्त्वसिद्धिः। न चेदमसिद्धम् ; तथाहि-सर्वविदोऽभावः प्रत्य
क्षेणाधिगम्यः, प्रमाणान्तरेण वा ? न तावत्प्रत्यक्षेण, तद्धि सर्वत्र १५सर्वदा सर्वः सर्वज्ञो न भवतीत्येवं प्रवर्त्तते, क्वचित्कदाचित्कश्चिद्वा? प्रथमपक्षे न सर्वज्ञाभावस्तज्ज्ञानवत एवाशेषज्ञत्वात् । न हि सकलदेशकालाश्रितपुरुषपरिषत्साक्षात्करणमन्तरेण प्रत्यक्षतस्तदाधारमसर्वज्ञत्वं प्रत्येतुं शक्यम् । द्वितीयपक्षे तु न सर्वथा
सर्वशाभावसिद्धिः। २० अथ न प्रवर्त्तमानं प्रत्यक्षं सर्वज्ञाभावसाधकं किन्तु निवर्त मानम् । ननु कारणस्य व्यापकस्य वा निवृत्तौ कार्यस्य व्याप्यस्य वा निवृत्तिः प्रसिद्धा नान्यनिवृत्तावन्यनिवृत्तिरतिप्रसङ्गीत् । न चाशेषज्ञस्य प्रत्यक्षं कारणं व्यापकं वा येन तनिवृत्तौ सर्वज्ञस्यापि निवृत्तिः । न चैवं घटाद्यभावासिद्धिः एकज्ञानसंसर्गिपदार्था
१ जपाकुसुमादिजनितम् । २ सर्वज्ञज्ञानस्य कचिद्विश्रान्तत्वान्न सर्वज्ञत्वमित्येवं वादिनः। ३ वेदस्यानाद्यनन्तताग्राहकं जैमिन्यादिज्ञानं क्वचिद्विश्रान्तमित्यादि। ४ किञ्च। ५ व्याप्तिर्विशेषतः प्रत्येतुं नायाति व्यक्तीनामानन्त्यात् । अतः सामान्येनेत्युक्तम् । ६ सामान्यमनाद्यनन्तमीदृशसामान्यस्य ग्राहकं व्याप्तिशानं क्वचिद्विश्रान्तं न वेत्यादि । ७ सर्वशः। ८ सर्वश । ९ अर्थ । १० शानस्य । ११ भवादृशाम् । १२ वात्मनि मुखादिवत् । १३ अस्मदादेः। १४ अग्न्यादेः। १५ वृक्षत्वस्य । १६ धूमादेः । १७ शिंशपात्वस्य। १८ अकारणस्याऽव्यापकस्य वा। १९ अकार्यस्याऽव्याप्यस्य वा। २० घटनिवृत्तौ पटनिवृत्तिप्रसङ्गात् । २१ अस्मदादेः । २२ सर्वज्ञाभावासिद्धिप्रकारेण । कथम् ? न प्रवर्तमानं प्रत्यक्षं घटाभावसाधकं किन्तु निवर्तमानमित्युक्ते ननु कारणस्येत्यादिग्रन्थो निवृत्तिपर्यन्तः । किन्तु सर्वशपदस्थाने घटपदं पठनीयम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org