________________
२६३
सू० २।१२] सर्वज्ञत्ववादः न्तरोपलम्भात् क्वचित्तत्सिद्धेः । न चात्राप्ययं न्यायः समानस्तत्संसर्गिण एव कस्यचिदभावत् , अन्यथा सर्वत्र तदभावविरोधो घटादिवत् । तन्न प्रत्यक्षेणाधिगम्यस्तभावः।
नाप्यनुमानेन; विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वाद्रथ्यापुरुषवदित्यनुमाने हि प्रमाणान्तरसंवादिनोऽर्थस्य ५ वक्तृत्वं हेतुः, तद्विपरीतस्य वा स्यात् , वक्तृत्वमात्रं वा? प्रथमपक्षे विरुद्धो हेतुः, प्रमाणान्तरसंवादिसूक्ष्माद्यर्थवक्तृत्वस्याशेषज्ञे एव भावात् । द्वितीयपक्षे तु सिद्धसाधनम् ; तथाभूतस्य वक्तुरसर्वज्ञत्वेनास्माभिरभ्युपगमात् । वक्तृत्वमात्रस्य तु हेतोः साध्यविपर्ययेण सर्वज्ञत्वेनानुपलब्धेन सह सहानवस्थानपरस्प-१० रपरिहारस्थितिलक्षणविरोधीसिद्धस्ततो व्यावृत्त्यभावान वसाध्यनियतत्वं यतो गमकत्वं स्यात् । सर्वशे वक्तृत्वस्यानुपलब्धेस्ततो व्यावृत्तिरित्यप्यसम्यक सर्वसम्बन्धिनोऽनुपलम्भस्यासिद्धः, तेनैव सर्वज्ञान्तरेण वा तत्र तस्योपलम्भसम्भवात् । सर्वज्ञस्य कस्यचिदभावात्सर्वसम्बन्धिनोऽनुपलम्भस्य सिद्धिरित्यस-१५ ङ्गतम् , प्रमाणान्तरातत्सिद्धावस्य वैयर्थ्यात् । अतः सिद्धौ चक्रकानुषङ्गः। नापि स्वसम्बन्धिनोऽनुपलम्भात्तव्यतिरेक निश्चयः; अस्य परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् ।
न चाखिलसाधनेषु दोषस्यास्य समानत्वान्निखिलानुमानो. च्छेदः, तत्र विपक्षव्यावृत्तिनिमित्तस्यानुपलम्भव्यतिरेकेण प्रेमा-२० णान्तरस्य भावात् । न चौत्र कार्यकारणभावः प्रसिद्धः; असर्वज्ञत्वधर्मानुविधानाभावाद्वचनस्य । यद्धि यत्कार्य तत्तद्धर्मानुवि. धायि प्रसिद्ध वैन्ह्यादिसामग्रीगतसुरभिगन्धाधुनुविधायिधूम
१ भूतल। २ घटाघमाव। ३ सर्वज्ञपि। ४ एकज्ञानसंसर्गिपदार्थान्तरोपलम्भात् कचिद् घटाभावप्रतिपत्तिलक्षणः। ५ प्रदेशस्य । ६ एकज्ञानसंसर्गिकोपि कश्चित्प्रदेशो भवेद्यदि । ७ आदिपदेनान्तरितं दूरम् । ८ जैनैः । ९ सर्वशाभाव । १. अतश्च सन्दिग्धविपक्षव्यावृत्तिको हेतुः । ११ बक्तत्वमात्रस्य । १२ अविनाभूतत्वम् । १३ वक्तत्वस्य । १४ प्रकृतसर्वक्षेन । १५ प्रकृतानुमानस्य । १६ वक्तत्वानुमानस्य । १७ वक्तत्वानुमानात्सर्वशाभावसिद्धिस्तत्सिद्धौ च सर्वशात्साधनस्य व्यावृत्तिसिद्धिरतश्चानुमानमिति । १८ वक्तृत्वस्य । १९ सर्वशलक्षणाद्विपक्षाद् व्यावृत्तिनिश्चयः। २० अभावसाध्यसाधकानां निखिलसाधनानां पक्षेनुपलम्भः सर्वसम्बन्धी आत्मसंबन्धीवेत्याधुक्ते असिद्धानकान्तिकत्वलक्षणस्य । २१ यत्राग्निनास्ति तत्र धूमोपि नास्ति । २२ ऊहस्य । २३ वक्तत्वासर्वशत्वयोः। २४ यसः । २५ वचनमसर्वशकार्य न भवति तद्धर्मानु विधानाभावात् । २६ सन्दिग्धानकान्तिकत्वे सतीदमाह । २७ यसः। २८ आदिपदेन श्रीगन्ध ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org