________________
सर्वज्ञत्ववादः
ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् । त्रयीविदाश्रितग्रन्थास्ते वेर्देप्रभवोक्तयः ॥ ११ ॥ " [ ]
सू० २।१२]
२५१
इति ।
न च प्रमाणान्तरं सदुपलम्भकं सर्वज्ञस्य साधकमस्ति । मा भूत्येदानीन्तनास्मदादिजनाना (नां) सर्वज्ञस्य साधकं ५ प्रत्यक्षाद्यन्यतमं देशान्तरकालान्तरवर्त्तिनां केषाञ्चिद्भविष्यतीति
चाऽयुक्तम् ;
"यजातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेण्यभूत् ॥"
[मी० लो० चोदनासू० लो० ११३] १० इत्यभिधानात् । तथा हि-विवादाध्यासिते देशे काले च प्रत्यक्षादिप्रमाणम् अत्रत्येदानीन्तनप्रत्यक्षादि ग्राह्य सजातीयार्थग्राहकं तद्विजातीय सर्वशाद्यर्थग्राहकं वा न भवति प्रत्यक्षादिप्रमाणत्वात् अत्रत्येदानीन्तनप्रत्यक्षादिप्रमाणवत् ।
नँनु च यथाभूतमिन्द्रियादिजनितं प्रत्यक्षादि सर्वज्ञाद्यर्थासा- १५ धकं दृष्टं तथाभूतमेव देशान्तरे कालान्तरे च तथा साध्यते, अन्यथाभूतं वा ? तथाभूतं चेत्सिद्धसाधनम् । अन्यथाभूतं चेदप्रयोजको हेतुः; जगतो बुद्धिमत्कारणत्वे साध्ये संनिवेशविशिष्टत्वादिवत् ; तदसाम्प्रतम् ; तथाभूतस्यैव तथा साधनात् । न च सिद्धसाधनमन्याहरीप्रत्यक्षाद्यभावात् । तथा हि-विवदा - २० पनं प्रत्यक्षादिप्रमाणमिन्द्रियादिसामग्रीविशेषानपेक्षं न भवति प्रत्यक्षादिप्रमाणत्वात्प्रसिद्धे प्रत्यक्षादिप्रमाणवत् । न गृद्धवराइपिपीलिकादिप्रत्यक्षेण सन्निहितदेशविशेषानपेक्षिणा नक्तञ्चरमत्यक्षेण वालोकानपेक्षिणानेकान्तः, कत्यायनाद्यनुमानातिशयेन, जैमिन्याद्यागमतिशयेन वा तस्यापीन्द्रियादिप्रणिधान सामग्री २५ विशेषमन्तरेणासम्भवात्, अतीन्द्रियाननुमेयाद्यर्थाविषयत्वेन स्वार्थातिलङ्घनाभावात् । तथा चोक्तम्
१ सिद्धाः प्रसिद्धाः । २ मध्ये । ३ त्रयीविद्भिराश्रितो ग्रन्थो येषां ते 1 ४ वेदात्प्रभव उत्पत्तिर्यसामुक्तीनां ता वेदप्रभवाः, वेदप्रभवा उक्तयो येषां मन्वादीनां वे । ५ रूपादिमदत्यासन्नादि । ६ अस्मदादिप्रमाणसदृशप्रमाणप्रकारेण । ७ सर्वशवादी व्रते । ८ अतीन्द्रियप्रत्यक्षम् । ९ सपक्षव्यापक पक्षव्यावृत्तः प्रतिनियतार्थग्राहित्वे सतीति विशेषणजनितोपाध्या हितसम्बन्धो हेतुरप्रयोजकः । १० अक्रियादर्शिनोपि कृतबुद्धुत्पादकत्वे सति । ११ अतीन्द्रिय । १२ देशान्तरकालान्तरवति । १३ अत्रत्यदानीन्तनं प्रसिद्धम् । १४ वररुचि । १५ अश्रुतवेदार्धलक्षण । १६ एकाग्रता । १७ स्वस्य प्रत्यक्षादेः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org