________________
सू० २।१२ ]
सर्वज्ञत्ववादः
र्मिणि तद्धर्मेणाग्निना धूमस्य व्याप्तिप्रतीतेः । साध्यविकलश्च ईष्टान्तः स्यात् । द्वितीयपक्षे तु प्रत्यक्षादिविरोधः । अथोभयगताग्निसामान्यं साध्यते तर्हि सिद्धसाध्यता ।
"
यच्चान्यदुक्तम्- प्रमेयत्वं किमशेषज्ञेयव्यापि प्रमाणप्रमेयत्वव्यक्तिलक्षणमस्मदादिप्रमाणप्रमेयत्वव्यक्तिस्वरूपं वेत्यादि तद्धूमादि - ५ सकलसाधनोन्मूलन हेतुत्वान्न वक्तव्यम् । तथाहि - साध्यधर्मिधर्मो धूमो हेतुत्वेनोपात्तः, दृष्टान्तधर्मिधर्मो वा स्यात् उभयगतसामान्यरूपो वा ? साध्यधर्मिधर्मत्वे दृष्टान्ते तस्याभावादनन्वयो हेतुदोषः । दृष्टान्तधर्मिधर्मत्वे साध्यधर्मिण्यभावादसिद्धता । उभयगतसामान्यरूपत्वेप्य सिद्धतैव, प्रत्यक्षत्वाप्रत्यक्षत्वेनात्यन्तविल- १० क्षणमहानसाचलप्रदेशव्यक्तिद्वयाश्रितसामान्यस्यैवासम्भवात् । अथ कण्ठाक्षिविक्षेपादिलक्षणधर्मकलापसाधर्म्यान महानसाचलप्रदेशाश्रितधूमव्यत्तयोरत्यन्तवैलक्षण्यं येनोभयगत सामान्या सिद्धेरसिद्धता स्यात् तर्हि स्वापूर्वार्थव्यवसायात्मकत्वादिधर्मकला
२५७
पसाधर्म्यस्यातीन्द्रियेन्द्रियविषयप्रमाणव्यक्तिद्वयेऽत्यन्तवैलक्षण्य- १५ निवर्त्तकस्य सम्भवादुभयसाधारणसामान्यसिद्धेः कथं प्रमेयत्वसामान्यस्यासिद्धिः ?
यच्चेदमुक्तम्- प्रसङ्गविपर्ययाभ्यां चास्याशेषार्थविषयत्वं बाध्यत इत्यादि तन्मनोरथमात्रम् ; साध्यसाधनयोर्व्याप्यव्यापकभावसिद्धौ हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यंत्र २० प्रदर्श्यते तत्प्रसङ्गसाधनम् । व्यापक निवृत्तौ चावश्यं भाविनी व्याप्यनिवृत्तिः स विपर्ययः । न च प्रत्यक्षत्व सत्सम्प्रयोगजत्वविद्यमानोपलम्भनत्वधैर्माद्यनिमित्तत्वानां कैंचित् प्रतिपन्नः । स्वात्मन्येवासौ प्रतिपन्न इत्यप्यसङ्गतम् ; चक्षुरादिकरणग्रामप्रभवप्रत्यक्षस्याव्यवहित देशकालस्वभावाविप्रकृष्ट- २५ प्रतिनियतरूपादिविषयत्वाभ्युपगमात्, नियमस्य चाभावाद्विप्र
व्याप्यव्यापकभावः
१ महानसे पर्वताग्नेरभावात् । २ लौकिक । ३ सिद्धं नः ( जैनानां ) समीहितमिति पाठान्तरम् । ४ पर्वतधूमवत्त्वादित्युक्ते । ५ महानसे । ६ यो यः पर्वतधूमवान् स सोनमानित्यन्वयो न । ७ महान सधूमवत्त्वादित्युक्ते । ८ अतीन्द्रियविषयचेन्द्रियविषयश्च तयो ग्रहकं प्रमाणम् । ९ सदृशत्वप्रवर्त्तकस्येत्यर्थः । १० सर्वशस्य । ११ अनुमाने । १२ व्याप्य । १३ व्यापक । १४ व्याप्य । १५ व्यापक । १६ दृष्टान्ते । १७ समीपवति । १८ यसः । १९ यथाविधे प्रत्यक्षे व्याध्यव्यापकभावः साध्यसाधनानां प्रतिपन्नस्तथाविधेऽसौ स्यान्न सर्वशत्वप्रत्यक्षे तत्र व्याप्यव्यापकभावस्याप्रतिपन्नत्वादित्यर्थः । २० यत्प्रत्यचशब्दावाच्यं तदव्यवहितदेशकालार्थग्राहकमिति नियमस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org