________________
२५६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० त्वादियद्यग्निमत्पर्वतधर्मस्तदाऽसिद्धः; को हि नामाग्निमत्पर्वतधर्म हेतुमिच्छन्नग्निमत्त्वमेव नेच्छेत् । तद्विपरीतधर्मश्चेद्विरुद्धः; साध्यविरुद्धसाधनात् । उभयधर्मश्चेद्व्यभिचारी सपक्षेतरयोर्वतनात् । विमत्यधिकरणभावापन्नधर्मिधर्मत्वे धूमवत्त्वादेः सर्वे ५सुस्थम् । यथा चाचलस्याचलत्वादिना प्रसिद्धसत्ताकस्य सन्दिग्धाग्निमत्त्वादिसाध्यधर्मस्य धर्मो हेतुर्न विरुध्यते, तथा प्रसिद्धात्मत्वादिविशेषणसत्ताकस्याप्रसिद्धसर्वज्ञत्वोपाधिसत्ताकस्य च धर्मिणो धर्मः प्रकृतो हेतुः कथं विरुध्येत?
यदपि अविशेषेण सर्वज्ञः कश्चित्साध्यते विशेषेण वेत्याद्यऽभि१० हितम् । तदप्यभिधानमात्रम् ; सामान्यतस्तत्साधानात्तत्रैवं विवादात् । विशेषविप्रतिपत्तौ पुनदृष्टेष्टाविरुद्धवाक्त्वादहत एवाशेषार्थशत्वं सेत्स्यति । कथं वा तत्प्रतिषेधः अत्राप्यस्य दोषस्य समा. नत्वात् ? अर्हतो हि तत्प्रतिषेधसाधनेऽप्रसिद्ध विशेषणः पक्षो
व्याप्तिश्च न सिध्येत् , दृष्टान्तस्य साध्यशून्यतानुषङ्गात् । अनर्हत. १५श्चेत् ; स एव दोषो बुद्धादेः परस्यासिद्धेः, अनिष्टानुषङ्गश्चाहतस्तद
प्रतिषेधात् । सामान्यतस्तत्प्रतिषेधे सर्व सुंस्थम् । __ यञ्चोक्तम्-एकज्ञानप्रत्यक्षत्वं सूक्ष्माद्यर्थानां साध्यत्वेनाभिप्रेतं प्रतिनियतविषयानेकज्ञानप्रत्यक्षत्वं वेत्यादि; तदप्युक्तिमात्रम् ;
प्रत्यक्षसामान्येन कस्यचित्सूक्ष्माद्यर्थानां प्रत्यक्षत्वसाधनात् । २० प्रसिद्ध च तेषां सामान्यतः कस्यचित्प्रत्यक्षत्वे तत्प्रत्यक्षस्यैकत्व
मिन्द्रियानिन्द्रियानपेक्षत्वात्सिध्येत्, तदपेक्षस्यैवास्यानेकत्वप्रसिद्धेः । तदनपेक्षत्वं च प्रमाणान्तरात्सिद्धयेत् ; तथाहि-योगिप्रत्यक्षमिन्द्रियानिन्द्रियानपेक्षं सूक्ष्माद्यर्थविषयत्वात् , यत्पुनरिन्द्रियानिन्द्रियापेक्षं तन्न सूक्ष्माद्यर्थविषयम् यथास्मदादिप्रत्यक्षम् , २५ तथा च योगिनः प्रत्यक्षम् , तस्मात्तथेति ।
किञ्च, एवं साध्य विकल्पनेनानुमानोच्छेदः । शक्यते हि वक्तुम्-साध्यधर्मिधर्मोऽग्निःसाध्यत्वेनाभिप्रेतः, दृष्टान्तधर्मिधर्मः, उभयधर्मो वा? प्रथमपक्षे विरुद्धो हेतुः; तद्विरुद्धेन दृष्टान्तध
१ शानवान् । २ अतश्च हेतूपन्यासो व्यर्थः । ३ अनग्निमत्पर्वतधर्मः । ४ आदिपदेन स्थूलत्वादिना। ५ आदिपदेन अमूर्त्तत्वम्। ६ सर्वशसाधने । ७ वीतो न सर्वशः पुरुषत्वाद्रथ्यापुरुषवदिति । ८ यो यः पुरुषः स सोऽर्हन् सन् सर्वज्ञो न भवतीति । ९ अन्यथा। १० रथ्यापुरुषस्य । ११ सर्वज्ञभाव। १२ सुगतादेः । १३ मीमासकस्य । १४ तस्य सर्वशत्वस्य । १५ अस्मत्पक्षेपि समान इत्यर्थः । कथम् ? सामान्यतः सर्वशसाधने अप्रसिद्ध विशेषणः पक्ष इत्यादिदूषणानि विशेषपक्षो. क्तानि नोपदोकन्ते इति । १६ प्रत्यक्षस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org