________________
२५०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० नाप्यर्थापत्तितस्तत्सिद्धिः; सर्वशसद्भावमन्तरेणानुपपद्यमानस्य प्रमाणषट्कविज्ञातार्थस्य कस्यचिदभावात् । धर्माधुपदेशस्य बहुजनपरिगृहीतस्यान्यथापि भावात् । तथा चोक्तम्"सर्वशो दृश्यते तावन्नेदानीमस्मदादिभिः।
[मी० श्लो० चोदनासू० श्लो० ११७] दृष्टो न चैकदेशोस्ति लिङ्गं वा यो मापयेत् ॥१॥[ ] न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः।। न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ २ ॥ [ ] न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते । न चानुवदितुं शक्यः पूर्वमन्यैरबोधितः॥ ३॥[ ] अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ ४॥ [ ] अथ तद्वचनेनैव सर्वज्ञोऽन्यः प्रतीयते । प्रकल्पेत कथं सिद्धिरन्योन्याश्रययोस्तयोः? ॥५॥[ ] सर्वशोक्ततया वाक्यं सत्यं तेन तदस्तिता। कथं तदुभयं सिद्ध्येत् सिद्धमूलान्तराहते ॥६॥[ ] असर्वशप्रणीतात्तु वचनान्मूलेंवर्जितात् । सर्वज्ञमवगच्छन्तः खवाक्यात्किन्न जानते ? ॥॥[ ] सर्वज्ञसदृशं कश्चिद्यदि पश्येम सम्प्रति । उपमानेन सर्वशं जानीयाम ततो वयम् ॥ ८॥ [ ] उपदेशो हि बुद्धादेर्धर्माऽधर्मादिगोचरः। अन्यथा नोपपद्येत सर्विशं यदि नाऽभवत् ॥९॥[ ] बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः।
उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥ १०॥[ ] १ सर्वशाभावेपि । २ सम्बन्ध्यन्तरं हेतुः । ३ लिङ्गं भूत्वेति शेषः । ४ सर्वशम् । ५ प्रशंसामनभावनादिः। ६ घटते। ७ यागार्थ । ८ आगमैः। ९ आगमात् । १० अनुभाषणात्। ११ प्रमाणान्तरैः। १२ सर्वशः। १३ असदादिभिः । १४ सर्वशागमसत्यार्थयोः। १५ कथमन्योन्याश्रय इत्युक्ते सत्याह। १६ बसः। १७ आगमप्रामाण्यलक्षणात् मूलादन्यत् सर्वशप्रामाण्यलक्षणं मूलान्तरं वा द्रष्टव्यम् । १८ मूलं प्रामाण्यम् । १९ सर्वशसदृशदर्शनात् । २० भूत्वा । २१ न विद्यते संभव उत्पत्तिर्यस्योपदेशस्य । २२ अशानात् ।
__1 'न च मत्रार्थवादानां... न चानुवदितुं शक्यः' इति श्लोकद्वयं विना सर्वेऽफि भोकाः तत्त्वसंग्रहे (पृ० ८३०,८३१,८३२,८३८,८३९,८४०) पूर्वपक्षे कुमारिलकत्तूंकत्वेनोपलभ्यन्ते।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org