SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ २५० प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० नाप्यर्थापत्तितस्तत्सिद्धिः; सर्वशसद्भावमन्तरेणानुपपद्यमानस्य प्रमाणषट्कविज्ञातार्थस्य कस्यचिदभावात् । धर्माधुपदेशस्य बहुजनपरिगृहीतस्यान्यथापि भावात् । तथा चोक्तम्"सर्वशो दृश्यते तावन्नेदानीमस्मदादिभिः। [मी० श्लो० चोदनासू० श्लो० ११७] दृष्टो न चैकदेशोस्ति लिङ्गं वा यो मापयेत् ॥१॥[ ] न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः।। न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ २ ॥ [ ] न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते । न चानुवदितुं शक्यः पूर्वमन्यैरबोधितः॥ ३॥[ ] अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ ४॥ [ ] अथ तद्वचनेनैव सर्वज्ञोऽन्यः प्रतीयते । प्रकल्पेत कथं सिद्धिरन्योन्याश्रययोस्तयोः? ॥५॥[ ] सर्वशोक्ततया वाक्यं सत्यं तेन तदस्तिता। कथं तदुभयं सिद्ध्येत् सिद्धमूलान्तराहते ॥६॥[ ] असर्वशप्रणीतात्तु वचनान्मूलेंवर्जितात् । सर्वज्ञमवगच्छन्तः खवाक्यात्किन्न जानते ? ॥॥[ ] सर्वज्ञसदृशं कश्चिद्यदि पश्येम सम्प्रति । उपमानेन सर्वशं जानीयाम ततो वयम् ॥ ८॥ [ ] उपदेशो हि बुद्धादेर्धर्माऽधर्मादिगोचरः। अन्यथा नोपपद्येत सर्विशं यदि नाऽभवत् ॥९॥[ ] बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः। उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥ १०॥[ ] १ सर्वशाभावेपि । २ सम्बन्ध्यन्तरं हेतुः । ३ लिङ्गं भूत्वेति शेषः । ४ सर्वशम् । ५ प्रशंसामनभावनादिः। ६ घटते। ७ यागार्थ । ८ आगमैः। ९ आगमात् । १० अनुभाषणात्। ११ प्रमाणान्तरैः। १२ सर्वशः। १३ असदादिभिः । १४ सर्वशागमसत्यार्थयोः। १५ कथमन्योन्याश्रय इत्युक्ते सत्याह। १६ बसः। १७ आगमप्रामाण्यलक्षणात् मूलादन्यत् सर्वशप्रामाण्यलक्षणं मूलान्तरं वा द्रष्टव्यम् । १८ मूलं प्रामाण्यम् । १९ सर्वशसदृशदर्शनात् । २० भूत्वा । २१ न विद्यते संभव उत्पत्तिर्यस्योपदेशस्य । २२ अशानात् । __1 'न च मत्रार्थवादानां... न चानुवदितुं शक्यः' इति श्लोकद्वयं विना सर्वेऽफि भोकाः तत्त्वसंग्रहे (पृ० ८३०,८३१,८३२,८३८,८३९,८४०) पूर्वपक्षे कुमारिलकत्तूंकत्वेनोपलभ्यन्ते। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy