________________
२३४
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
मानं ज्ञानं सदेव वस्तु विषयीकरोतीति किन्नेष्यते? तत्कथमर्थकार्यता ज्ञानस्य अनेन व्यभिचारात् संशयज्ञानेन च?
न हि तदर्थे सत्येव भवति, अभ्रान्तत्वानुषङ्गात्, तद्विषयभूतस्य स्थाणुपुरुषलक्षणार्थद्वयस्यैकत्र सद्भावासम्भवाच्च । ५सद्भावे वारेको न स्यात् । अथोच्यते-"सामान्यप्रत्यक्षाद्विशेषांप्रत्यक्षादुभयविशेषस्मृतेश्च संशयः” [वैशे० सू० २।२।१७] विपर्ययः पुनस्तद्विपरीतविशेषस्मृतेः इत्यर्थादेवानयोर्भावः; तदप्युक्तिमात्रम्। तयोः खलु सामान्यं वा हेतुः स्यात्, विशेषो
वा, द्वयं वा? न तावत्सामान्यम्, तत्र संशयाद्यभावात् १० 'सामान्यप्रत्यक्षात्' इत्यभिधानात्, प्रत्यक्षे च संशयादिविरोधात् । विशेषविषयं च संशयादिज्ञानम् । न चास्य सामान्य जनकं युज्यते । न ह्यन्यविषयं ज्ञानमन्येन जन्यते, रूपज्ञानस्य रसादुत्पत्तिप्रसङ्गात् । यथा च सामान्यादुपजायमानं
तेदसतो विशेषस्य वेदकं तथेन्द्रियमनोभ्यां जायमानं सतः १५ सामान्यादेरपीति व्यर्थार्थस्य तद्धेतुत्वकल्पना । सामान्यार्थजत्वे
चास्य अर्थानर्थजत्वप्रतिज्ञाविरोधः, कामलिनश्च केशोण्डुकादिज्ञानानुत्पत्तिः, न खलु तंत्र केशोण्डुकादिसमानधर्मा धर्मी विद्यते यदर्शनात्तत्स्यात् । तन्नास्य सामान्यं हेतुः ।
नापि विशेषस्तत्र तदभावात् । न खलु पुरोदेशे स्थाणुपुरुष२० लक्षणो विशेषोस्ति तज्ज्ञानस्याभ्रान्तत्वप्रसङ्गात् । स्थाणुरस्तीति
चेत्, कथं ततः किं पुरुषः पुरुष एवेति पुरुषांशावसायः? अन्यथान्यत्रापि ज्ञानेर्थस्य कारणत्वकल्पना व्यर्था । तन्न विशेघोपि तद्धेतुः । नाप्युभयम्; उभयपक्षोक्तदोषानुषङ्गात् । ततः
संशयादिज्ञानस्यार्थाभावेप्युपलम्भात्कथं तद्भावे ज्ञानाभावसि२५द्धिर्यतीर्थकार्यतास्य स्यात् ?
१ भवता नैयायिकेन । २ केशोण्डुकशानेन । ३ अन्यथा । ४ संशयशानस्य । ५ संशयः । ६ परेण । ७ ऊर्द्धतासामान्यस्य ग्राहकं प्रत्यक्षमुपलम्भस्तस्मात् । ८ स्थाणुत्वपुरुषत्वलक्षणो विशेषस्तस्याऽप्रत्यक्षमनुपलम्भस्तस्मात् । ९ विधमानविशेपात् । १० तस्माद्विधमानविशेषात्सामान्यादिलक्षणात् । ११ शानम् । १२ सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षादिति सामग्रीतः संशयोत्पत्ती दूषणान्तरमाह । १३ संशयस्य । १४ स्थाणुपुरुषलक्षणयोरंशयोरन्यतर एकस्तु विद्यमानोर्थोऽपरोऽविद्यमानोऽनर्थः । १५ स्थाणुस्थानीयः। १६ आकाशे। १७ शुक्तिकास्थानीयः। १८ संशयादेः। १९ पुरोदेशे । २० अन्यथा। २१ स्थाणावविद्यमानस्य पुरुषांशस्य व्यवसायो यदि । २२ इन्द्रियमनोभ्यामुत्पन्ने सत्यञ्चानेपि । २३ संशयादिहेतुः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org