________________
सू० २।८-९ ]
आलोककारणतावादः
मन्दम्' इति लोकव्यवहारः किं काकैर्भक्षितः १ अत्रास्याऽप्रमाणत्वेऽन्यत्र कः समाश्वासः ? ननु बहिंर्देशादागत्य गृहान्तः प्रविष्टस्य सत्यप्यालोके तमः प्रतीतेर्न पारमार्थिकं तत्, न चालोकतमसो - विरुद्धयोरेकत्रावस्थानम्, ततो ज्ञानानुत्पत्तिमात्रमेव तदिति चेत्; तर्हि नक्तञ्चरादीनामेव (वं) विवरादौ प्रदीपाद्यालोकाभावेपि ५ तत्प्रतीतेः सोपि पारमार्थिको न स्यात् । न चैकत्र तमोऽभावेपि तत्प्रतीतेः सर्वत्र तदभावो युक्तः, अन्यथाऽर्थाभावेपि कचित्तत्प्रतीतेः सर्वत्र तदभावः स्यात् । तस्मादालोकवत्तमपि प्रतीतिसिम् । तंत्र चालोकाभावेपि ज्ञानोत्पत्तिप्रतीतेः । न च तत्प्रति त कारणता । तन्नार्थालोकयोर्ज्ञानं प्रति कारणत्वम् ।
१०
एवं तर्हि तत्तयोः प्रकाशकमपि न स्यादित्याह -
अतज्जन्यमपि तत्प्रकाशकम् ॥ ८ ॥ ताभ्यामर्थालोकाभ्यामजन्यमपि तयोः प्रकाशकम् । अत्रैवार्थे प्रदीपवदित्युभयप्रसिद्धं दृष्टान्तमाहप्रदीपवत् ॥ ९ ॥
न खलु प्रकाश्यो घटादिः स्वप्रकाशकं प्रदीपं जनयति, स्वकारणकलापादेवास्योत्पत्तेः । ' प्रकाश्याभावे प्रकाशकस्य प्रकाशकत्वायोगात् तस्य जनक एव' इत्यभ्युपगमे प्रकाशकस्याभावे प्रकाश्यस्यापि प्रकाश्यत्वाघटनात् सोपि तस्य जनकोऽस्तु । तथा चेतरेतराश्रयः- प्रकाश्यानुत्पत्तौ प्रकाशकानुत्पत्तेः, तदनु- २० त्पत्तौ च प्रकाश्यानुत्पत्तेरिति । स्वकारणकलापादुत्पन्नयोः प्रदीपघटयोरन्योन्यापेक्षया प्रकाश्यप्रकाशकत्वधर्मव्यवस्थाया एव प्रसिद्धेनेतरेतराश्रयावकाश इत्यभ्युपगमे ज्ञानार्थयोरपि खसामग्रीविशेषवशादुत्पन्नयोः परस्परापेक्षया ग्राह्यग्राहकत्वर्धर्मव्यव - स्थाssस्थीयताम् । कृतं प्रतीत्यपलापेन ।
२५
२३९
ननु चाजनकस्याप्यर्थस्य ज्ञानेनावगतौ निखिलार्थावगतिप्रसङ्गात्प्रतिकर्मव्यवस्था न स्यात् । 'यद्धि येतो ज्ञानमुत्पद्यते तत्तस्यैव ग्राहकं नान्यस्य' इत्यस्यार्थजन्यत्वे सत्येव सा स्यादिति वदन्तं
प्रत्याह
१ तमसि । २ नरस्य । ३ तमसोऽभावेपि तमः प्रतीतिप्रकारेण । ४ एकत्राभावे सर्वत्राभावो यदि । ५ तमसि । ६ तमसः । ७ अर्थालोकयोर्ज्ञानं प्रत्यकारणत्वप्रकारेण । ८ स्वरूप । ९ अभ्युपगम्यताम् । १० अलमित्यर्थः । ११ प्रतिनियतविषयव्यवस्था । १२ अर्थात् ।
Jain Educationa International
For Personal and Private Use Only
१५
www.jainelibrary.org