________________
२४०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० खावरणक्षयोपशमलक्षणयोग्यतया हि प्रति
नियतैमर्थ व्यवस्थापयति ॥ १०॥ तथा हि-यदर्थप्रकाशकं तत्स्वात्मन्यपेतप्रतिवन्धम् यथा प्रदीपादि, अर्थप्रकाशकं च ज्ञानमिति । प्रेति नियतवावरणक्षयो. ५पशमश्च ज्ञानस्य प्रतिनियतार्थोपलब्धेरेव प्रसिद्धः। न चान्यो. न्याश्रयः; अस्याः प्रतीतिसिद्धत्वात् । तल्लक्षणयोग्यता च शक्तिरेव । सैव ज्ञानस्य प्रतिनियतार्थव्यवस्थायामङ्गं नार्थोत्पत्त्यादिः, तस्य निषिद्धत्वादन्यत्रादर्शनाच्च । न खलु प्रदीपः प्रकाश्यार्थैर्जन्य. स्तेषां प्रकाशको दृष्टः। १० किञ्च, प्रदीपोपि प्रकाश्यार्थाऽजन्यो यावत्काण्डपटाद्यनावृत.
मेवार्थ प्रकाशयति तावत्तदावृतमपि किन्न प्रकाशयेदिति चोये भवतोप्यतो योग्यतातो न किश्चिदुत्तरम् । कारणस्य च परिच्छेद्युत्वे करणादिना व्यभि
चारः ॥ ११ ॥ १५ नहीन्द्रियमदृष्टादिकं वा विज्ञानकारणमप्यनेन परिच्छेद्यते । न
ब्रूमः-कारणं परिच्छेद्यमेव किन्तु 'कारणमेव परिच्छेद्यम्' इत्यवधारयामः, तन्न; योगिविज्ञानस्य व्याप्तिज्ञानस्य चाशेषार्थग्राहिणोऽभावप्रसङ्गात् । न हि विनष्टानुत्पन्नाः समसमयभाविनो वार्थास्तस्य कारणमित्युक्तम् । केशोण्डुकादिज्ञानस्य चाजनकार्थग्राहि२० त्वाभावप्रसङ्गः । कथं च कारणत्वाविशेषेपीन्द्रियादेरग्रहणम् ?
अयोग्यत्वाचेत् ; योग्यतैव तर्हि प्रतिकर्मव्यवस्थाकारिणी, अलमन्यकल्पनया । स्वाकारार्पकत्वाभावाचेन्न; ज्ञाने वाकारार्पकत्व. स्याप्यपास्तत्वात् । कथं च कारणत्वाविशेषेपि किञ्चित्स्वाकारार्पकं किञ्चिन्नेति प्रतिनियमो योग्यतां विना सिध्येत् ? कथं च सकलं २५ विज्ञानं सकलार्थकार्य न स्यात् ? 'प्रतिनियतशक्तित्वाद्भावानाम्' इत्युत्तरं ग्राह्यग्राहकांवेपि समानम् ।
१ शानं कर्तृ । २ ज्ञानस्यापेतप्रतिबन्धत्वं कारणमर्थप्रकाशे चेत्तहिं सकलार्थप्रकाशकं किमिति न स्यादित्युक्ते आह । ३ आदिपदेन ताद्रूप्यादिः । ४ प्रकाशके प्रदीपादौ । ५ तदुत्पत्यादेः। ६ धर्मी हेतुश्च । ७ साध्यम् । ८ घटादिवदिति दृष्टान्तः । ९ इन्द्रियादिना । १० ज्ञानेन । ११ वयं सुगताः । १२ यत्सत्तत्सर्व क्षणिकमिति । १३ उत्पत्त्यादि । १४ इन्द्रियादेः । १५ स्वस्य घटादिवस्तुनः। १६ स्तम्भलक्षणादर्थादनुत्पद्यमानं शानं स्तम्भस्य ग्राहकं यथा तथा निश्शेषार्थग्राहकं कुतो न स्यादित्युत्तरं प्रतिनियतशक्तित्वाद्भावानामित्यत्रापि समानम् । १७ सामरत्येन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org