________________
सू० २१७] अर्थकारणतावादः
२३३ तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुक
ज्ञानवन्नक्तश्चरज्ञानवच्च ॥७॥ तदन्वयव्यतिरेकानुविधानाभावाच्च, न केवलं परिच्छेद्यत्वात्तयोस्तदकारणताऽपि तु ज्ञानस्य तंदन्वयव्यतिरेकानुविधानाभावाच्च । नियमेन हि यद्यस्यान्वयव्यतिरेकावनुकरोति तत्तस्य५ कार्यम् यथाग्नेधूमः । न चानयोरन्वयव्यतिरेको ज्ञानेनानुक्रियेते।
अत्रोभयप्रसिद्धदृष्टान्तमाह-केशोण्डुकज्ञानवन्नक्तश्चरज्ञानवञ्च । कामलाद्युपहतचक्षुषो हि न केशोण्डुकज्ञानेर्थः कारणत्वेन व्याप्रियते । तत्र हि केशोण्डुकस्य व्यापारः, नयनपक्षमादेर्वा, तत्के-१० शानां वा, कामलादेर्वा गत्यन्तराभावात् ? न तावदाद्य विकल्पः न खलु तज्ज्ञानं केशोण्डुकलक्षणेथे सत्येव भवति भ्रमाभावप्रसङ्गात् । नयनपक्ष्मादेस्तत्कारणत्वे तस्यैव प्रतिभासप्रसङ्गात्, गगनतलावलम्बितया पुरःस्थतया केशोण्डुकाकारतया च प्रतिभासो न स्यात् । न ह्यन्यदन्यत्रान्यथा प्रत्येतुं शक्यम् । अथ नय-१५ नकेशा एव तत्र तथाऽसन्तोपि प्रतिभासन्ते; तर्हि तद्रहितस्य कामलिनोपि तत्प्रतिभासाभावः स्यात् ।
किञ्च, असौ तद्देशे एव प्रतिभासो भवेन्न पुनर्देशान्तरे । न खलु स्थाणुनिवन्धना पुरुषभ्रान्तिस्तद्देशादन्यत्र दृष्टा । कथं च तेदेशता तदाकारता चाऽसती तज्ज्ञानं जनयेद्यतो ग्राह्या स्यात् । २० अथ भ्रान्तिवशात्तत्केशाएव तंत्र तथा तज्ज्ञानं जनयन्ति; अस्मा. कमपि तर्हि 'चक्षुर्मनसी रूपज्ञानमुत्पादयेते' इति समानम् । यथैव होन्यविषयजनितं ज्ञानमन्यविषयस्य ग्राहकं तथान्य कारणजनितमपि स्यात्।
अथ कामलादय एव तज्ज्ञानस्य हेतवः, तेभ्यश्चोत्पन्नं तदसदेव २५ केशादिकं प्रतिपद्यते; तर्हि निर्मललोचनमनोमात्रकारणादुत्पद्य
१ अर्थालोक । २ अर्थालोकयोर्शानं प्रत्यकारणत्वे साध्ये । ३ अर्थाभावे ( कोषेषूडुकशब्द एव श्रयते)। ४ आलोकाभावे । ५ भवति चेत्तहिं । ६ केशोण्डुकशानस्य । ७ नरस्य । ८ केशोण्डुक । ९ नयनदेशे। १० नयनकेशानाम् । ११ गगनतले । १२ गगनतल । १३ नयनकेशेषु । १४ केशोण्डुक । १५ केशोण्डुक। १६ नयन । १७ गगनतले । १८ केशोण्डुकतया । १९ केशोण्डुक । २० नयनकेशेभ्यस्सकाशादन्यत्केशोण्डुकस्य ग्राहकं चेत् । २१ केशोण्डुकादन्ये नयनकेशाः । २२ नयनकेचेभ्यस्सकाशादन्यस्केशोण्डुकं तस्य । २३ अर्थादन्ये इन्द्रियमनसी। २४ केशोण्डुक ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org