________________
सू० २।६] अर्थकारणतावादः
२३१ गृह्यते सामान्यविशेषवत्त्वे सति बाह्येकेन्द्रियप्रत्यक्षत्वात्, बाबैकेन्द्रियप्रत्यक्षत्वे सत्यनात्मविशेषगुणत्वाद्वा रूपादिवत्"[ ] इति । ततो नेन्द्रियाणां प्रतिनियतभूतकार्यत्वं व्यवतिष्ठते प्रमाणाभावात् । प्रतिनियतेन्द्रिययोग्यपुद्गलारब्धत्वं तु द्रव्येन्द्रियाणां प्रतिनियतभावेन्द्रियोपैकरणभूतत्वान्यथानुपपत्तेर्घटते इति ५ प्रेक्षादक्षैः प्रतिपत्तव्यम्।
ननु चेन्द्रियानिन्द्रियनिमित्तं तैदित्यसाम्प्रतम् , आत्मार्थालोकादेरपि तत्कारणतयात्राभिधानाहत्वात् तन्न; आत्मनः समनन्तरप्रत्ययस्य वा प्रत्ययान्तरेप्यविशेषात् अत्रानभिधानम् असाधारणकारणस्यैव निरूपयितुमभिप्रेतत्वात् । सन्निकर्षस्य चाऽ-१० व्यापकत्वादसाधकतमत्वाच्चानभिधानम्। अर्थालोकयोस्तदसाधारणकारणत्वादत्राभिधानं तर्हि कर्त्तव्यम् । इत्यप्यसत्; तयोर्ज्ञानकारणत्वस्यैवासिद्धेः। तदाहनार्थाऽऽलोको कारणं परिच्छेद्यत्वात्तमोवत् ॥६॥
प्रसिद्धं हि तमसो विज्ञानप्रतिबन्धकत्वेनातत्कारणस्यापि परि-१५ च्छेद्यत्वम् । ननु ज्ञानानुत्पत्तिव्यतिरेकेणान्यस्य तमसोऽभावा
तद्वयदासार्थ स्वेन शब्दलक्षणेन समानजातीयविशेषगुणवतेन्द्रियेण गृह्यत इत्युक्तम् । साध्य विशेषणसाफल्यानन्तरं हेतुविशेषणसाफल्यमुच्यते । इन्द्रियग्राह्यत्वादित्युच्यमाने घटेनानेकान्तः । घटो हि इन्द्रियग्राह्यो भवति न च स्वसमानजातीय विशेषगुणवते. न्द्रियेण गृह्यते-घटस्य द्रव्यत्वेन तत्समानजातीयस्य गुणस्याभावात् । तेनानेकान्तव्युदासार्थमेकेन्द्रियग्राह्यत्वादित्युक्तम् । न हि घटस्यैकेन्द्रियग्राह्यत्वं स्पर्शनादीन्द्रियेणापि ग्रहणात् । एकेन्द्रियग्राह्यत्वादित्युच्यमाने आत्मनानेकान्तः । आत्मा हि मनो. लक्षणैकेन्द्रियग्राह्यो भवति, न च समानजातीयविशेषगुणवतेन्द्रियेण गृह्यते-आत्मनो द्रव्यत्वेन तत्समानजातीयस्य गुणस्य मनस्यभावात् । तत्परिहारार्थ बाबैकेन्द्रियग्राह्यस्वादित्युक्तम् । तथा च रूपत्वादिनानेकान्तः। रूपत्वादिकं बाह्मैकेन्द्रियग्राह्यं भवति, न च स्वसमानजातीयविशेषगुणवतेन्द्रियेण गृह्यते-रूपत्वस्य सामान्यभावेन तत्सजातीयगुणस्यैवासम्भवात् । तत्परिहारार्थ सामान्यविशेषवत्वे सति बाबैकेन्द्रियग्राह्यत्वादित्युक्तम् । न च रूपत्वसामान्यं सामान्यवद्भवति-निस्सामान्यानि सामान्यानीति वचनात् ।
१ न चैकपुद्गलजन्यत्वेनैकादृशत्वं योग्य पुद्गलारब्धत्वात् । २ सहाय । ३ सांव्यवहारिकम् । ४ आदिपदेन सन्निकर्षादेः। ५ प्रत्यक्ष । ६ सूत्रे । ७ कारणरूपस्य । ८.पूर्वम् । ९ उपादानत्वेनात्मनासदृश । १० परोक्षज्ञाने। ११ सूत्रे। १२ विशेष। १३ चक्षुषः प्राप्यकारित्वनिराकरणात् । १४ सांव्यवहारिकस्य । १५ सूत्र । १६ जैनैः। १७ शानस्य । १८ ज्ञेयत्वम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org