________________
१०२
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
3
कत्वव्यवस्थामिच्छतां अनुभवसिद्धकर्तृत्वभोक्तृत्वाद्यनेकधर्माधारचिद्विवर्त्तस्याप्येकत्वमभ्युपगन्तव्यं तदविशेषात् । न चात्रैकत्वप्रतिभासे किञ्चिद्वाधकम्, यतो द्विचन्द्रादिप्रतिभासवन्मिथ्यात्वं स्यात् । स्वसंवेदनप्रसिद्धखपरप्रकाशरूपचिद्विवर्त्तव्यतिरेकेणान्य५ चैतन्यस्य कदाचनाप्यप्रतीतेः । न चोपदेशमात्रात्प्रेक्षावतां निर्वाध बोधाधिरूढोऽर्थोऽन्यथीं प्रतिभासमानोऽन्यथापि कल्पयितुं युक्तोऽतिसङ्गात् । चैतन्यस्य च खपरप्रकाशात्मकत्वे किं बुद्धिसाध्यं येनासौ कल्प्यते ?
Jain Educationa International
बुद्धे चेतनत्वे विषयव्यवस्थापकत्वं न स्यात् । औकारवत्त्वा१० त्तत्त्वमित्यप्ययुक्तम् ; अचेतनस्याकारत्वे (रवत्त्वे ) प्यर्थव्यवस्थापकत्वासम्भवात्, अन्यथाऽऽदर्शादेरपि तत्प्रसङ्गाद्बुद्धिरूपतानुषङ्गः । अन्तःकरणत्व-पुरुषोपभोगप्रत्यासन्न हेतुत्वलक्षणविशेषोपि मनोऽक्षादिनानैकान्तिकत्वान्न बुद्धेर्लक्षणम् । यदि च अयमेकान्तः'अन्तःकरणमन्तरेणार्थमात्मा न प्रत्येति' इति, कथं तर्हि अन्तः१५ करणेप्रत्यक्षता ? अन्यान्तःकरणबिम्बादेवेति चेत्; अनवस्था । अन्यान्तःकरणविम्बमन्तरेणान्तःकरणप्रत्यक्षतायां च अर्थप्रत्यक्षतापि तथैवास्त्व ं तत्परिकल्पनया । अन्तःकरणप्रत्यक्षताभावे च कथं तद्गतीर्थविम्बग्रहणम् ? न ह्यादर्शाग्रहणे तद्गतार्थप्रतिविम्बग्रहणं दृष्टम् ।
२० विषयाकारधारित्वं च बुद्धेरनुपपन्नम्, मूर्त्तस्यामूर्त्ते प्रति१ परेण । २ आत्मनः । ३ बोधस्य । ४ प्रमाणं । ५ आगमात् । ६ बुद्धिलक्षण । ७ एकत्वेन । ८ स्वसंवेदनप्रत्यक्ष । ९ बुद्धिलक्षण: । १० एकत्वेन प्रतिभासमानः । ११ बुद्धिचैतन्यमिति द्वयरूपतया । १२ अन्यथा । १३ केन कारणेन । १४ किञ्च । १५ अर्थाकारवत्त्वात् । १६ जलादेः । १७ मध्ये (?) । १८ अनुभव । १९ कारणं -बुद्धिरूपम् । २० व्यस्तलक्षण । २१ अदृष्ट । २२ अतिव्याप्तेः । २३ अन्तःकरणत्वं बुद्धेर्लक्षणमित्युक्ते मनसा व्यभिचारः । कथं मनो ह्यन्तःकरणं भवति न च तस्य बुद्धिरूपता पुरुषोपभोगप्रत्यासन्नहेतुत्वं बुद्धेर्लक्षणमित्युक्ते चाक्षादिना व्यभिचारस्तथा हि-पुरुषोपभोगप्रत्यासन्नहेतुरिन्द्रियं भवति न च तस्य बुद्धिरूपता । २४ किञ्च । २५ बुद्धिम् । २६ बुद्धि | २७ आकार । २८ बुद्धि । २९ बुद्धि । ३० अन्तःकरणगतार्थ ।
1 " न चास्या वास्तवचैतन्याभावे विषयव्यवस्थापनशक्तिर्युक्ता ।"
न्यायकुमु० पृ० १९३ । स्या० रा० पृ० २३८ । 2 "न विषयाकारधारि ज्ञानममूर्त्तत्वात् यदमूर्त्त तद् विषयाकारधारि न भवति यथा आकाशम्, अमूर्तच शानमिति । तद्धारित्वे वा अमूर्त्तत्वमस्य विरुध्यते ।”
न्यायकुमु० पृ० १९३ । स्या० रत्ना० पृ० २३८ ।
For Personal and Private Use Only
www.jainelibrary.org