________________
२२६
प्रमेयकमलमार्त्तण्डे
[ २. प्रत्यक्षपरि०
सति' इति विशेषणेप्यालोकार्थसन्निकर्षेण चक्षूरूपयोः संयुक्तसमवायसम्बन्धेन चानेकान्तः । 'द्रव्यत्वे करणत्वे च सति तत्प्रकाशकत्वात्' इति विशेषणेपि चन्द्रादिनानेकान्तः ।
किञ्च द्रव्यं रूपप्रकाशकं भासुररूपम्, अभासुररूपं वा ? ५ प्रथमपक्षे उष्णोदकसंसृष्टमपि तत् तत्प्रकाशकं स्यात् । अनुद्भूतरूपत्वान्नेति चेत्, नायनरश्मीनामध्यत एव तन्माभूत् । तैया दृष्टत्वादित्यप्यनुत्तरम्, संशयात्, न हि तंत्र निश्चयोस्ति तें
१४
प्रकाशका न गोलकमिति । अनुद्भूतरूपस्य तेजोद्रव्यस्य दृष्टान्तेपि रूपप्रकाशकत्वाप्रतीतेः । तथाच, न चक्षू रूपप्रकाशकम१० नुद्भूतरूपत्वा जलसंयुक्तानलवत् । द्वितीयपक्षेपि उष्णोदक तेजोरूपं तत्प्रकाशकं स्यात् । न हि तत्तत्र नष्टम्, 'अनुद्भूतम्' इत्यभ्युपगमत् । उद्भूतं तत्तत्प्रकाशकमित्यभ्युपगमे रूपप्रकाशस्तदन्वयव्यतिरेकानुविधायी तस्यैव कार्यो न द्रव्यस्य । न खलु देव दत्तं प्रति पश्वादीनामागमनं तद्गुणान्वयव्यतिरेकानुविधायि देव१५ दत्तस्य कौर्यम् । ततो 'द्रव्यत्वे सति' इति विशेषणासिद्धिः ।
किञ्च, सम्बन्धादेरिवाऽतैजसस्यापि द्रव्यरूपकरणस्य कस्यचि - द्रूपज्ञानजनकत्वं किन्न स्यात्, विपक्षव्यावृत्तेः सन्दिग्धत्वादतैजसत्वे रूपज्ञानजनकत्वैस्या विरोधात् ? तदेवं तैजसत्वासिद्धेनीतचक्षुषोरश्मिवत्त्वसिद्धिः ।
२० अथान्यतः सिद्धानां रश्मीनां ग्राह्यार्थसम्बन्धोनेन साध्यते; नै; अन्यतः कुतश्चित्तेषामसिद्धेः, प्रत्यक्षादेस्तत्साधकत्वेन प्राक्प्र
१ सन्निकर्षाः संयुक्तसमवायादयः करणं भवन्ति न तु तैजसम् । २ चक्षुषा संयुक्ते घटे रूपस्य समवायसम्बन्ध इत्यतः सन्निकर्षोपि संयुक्तसमवाय एवात्र । ३ तेजोद्रव्ये सन्निकर्षादयो गुणास्तद्वयवच्छेदार्थं द्रव्यत्वे सतीति विशेषणम् । ४ चक्षुस्तैजसं द्रव्यत्वे करणत्वे च सति रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् । ५ रूप । ६ चन्द्रे तैजसत्वाभावात् । ७ तेजोद्रव्यम् । ८ भासुररूपस्य । ९ रूपप्रकाशकत्वम् । १० अनुद्भूतरूपस्यापि तेजोद्रव्यस्य रूपप्रकाशकत्वेन । ११ तेजोद्रव्ये । १२ रूप । १३ भासुर । १४ उष्णोदकगततेजोरूपम् । १५ रूप । १६ परेण । १७ रूप । १८ उद्भूततेजरूपस्य । १९ गोलकगतोद्भूततेजोरूपस्य । २० तेजोद्रव्यस्य । २१ मन्त्रतत्रादि । २२ किन्तु देवदत्त गुणस्यैव कार्यम् । २४ आदिपदेन संयोगस्य चन्द्रादेश्च । २५ गोलकरूपस्य । जलादेः दे: । २७ रूपज्ञानजनकत्व हेतोः । २८ यत्तैजसं न भवति मिति । २९ जलादीनाम् । ३० तैजसत्वादिति हेतोः । ३१ द्वितीयपक्षः । ३२ इति चेन्न । ३३ प्रमाणात् ।
२३ सन्निकर्षादि । २६ विपक्षादतैजसा
तन्न रूपप्रकाशक
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org