________________
सू० २।४] चक्षुःसन्निकर्षवादः
२२७ तिषिद्धत्वात् । तथा चेदमयुक्तम्-"धत्तूरकपुष्पवदादी सूक्ष्माणामप्यन्ते महत्त्वं तद्रश्मीनां महापर्वतादिप्रकाशकत्वान्यथानुपपत्तेः।"[ ] इति; खरूपतोऽसिद्धानां तेषां महत्त्वादिधर्मस्य श्रद्धामात्रगम्यत्वात् । ततो रश्मिरूपचक्षुषोऽप्रसिद्धोलकस्य च प्राप्यकारित्वे प्रत्यक्षबाधितत्वात्कस्य प्राप्तार्थप्रकाशकत्वं साध्येत?५ यदि च स्पर्शनादौ प्राप्यकारित्वोपलम्भाञ्चक्षुषि तत्साध्येत; तर्हि हस्तादीनां प्राप्तानामेवान्याकर्षकत्वोपलम्भादयस्कान्तादीनां तथा लोहाकर्षकत्वं किन्न साध्येत ? प्रमाणवाधान्यत्रापि ।
अथार्थेन चक्षुषोऽसम्बन्धे कथं तत्र ज्ञानोदयः? क एवमाह'तत्र ज्ञानोदयः' इति ? आत्मनि ज्ञानोदयाभ्युपगमात् । न चाप्रा-१० प्यकारित्वे चक्षुषः सकृत्सर्वार्थप्रकाशकत्वप्रसङ्गः, प्रतिनियतशक्तित्वाद्भावानाम् । 'य एव यत्र योग्यः स एव तत्करोति' इत्यनन्तरमेव वक्ष्यते । कार्यकारणयोरत्यन्तभेदेऽर्थान्तरत्वाविशेषात् 'सर्वमेकस्मात्कुतो न जायेत' इति, 'रश्मयो वा लोकान्तं कुतो न गच्छन्ति' इति चोये भैवतोपि योग्यतैव शरणम् । १५
किञ्च, चक्षु रूपं प्रकाशयति संयुक्तसमवायसम्बन्धात्, स चास्य गन्धादावपि समान इति तमपि प्रकाशयेत् । तथा चेन्द्रियान्तरवैयर्थ्यम् । योग्यताऽभावात्तदप्रकाशने सर्वत्र सैवास्तु, किमन्तर्गडुना सम्बन्धेन ? यदि चायमेकॉन्तश्चक्षुषा सम्बद्धस्यैव ग्रहणमिति; कथं तर्हि स्फटिकाद्यन्तरितार्थग्रहणम् ? तेंद्रश्मीनां २० तं प्रति गच्छतां स्फटिकाद्यवयविना प्रतिबन्धात् । तैस्तस्य नाशितत्वाददोषे तद्व्यवहितार्थोपलम्भसमये स्फटिकादेरुपलम्भो ने स्यात् । तस्योपरि स्थितनॆव्यस्य च पातप्रसक्तिः आधारभूतस्यावयविनो नाशात् । न हि परमाणवो दृश्याः कस्यचिदाधारा वा; अवयविकल्पनानर्थक्यप्रसङ्गात् । अवयव्यन्तरस्योत्पत्तेरदोषे २५ तदा तद्व्यवहितार्थानुपलम्भप्रसङ्गः । न चैवम् , युगपत्तयोर्निरन्तरमुपलम्भात् । अथाशु व्यूहान्तरोत्पत्तेर्निरन्तरस्फटिकादिवि
१ अप्राप्ताकर्षकाणाम् । २ प्राप्तत्वप्रकारेण । ३ प्रत्यक्षबाधा। ४ चक्षुष्यपि । ५ जैनैः । ६ चक्षुरादीनाम् । ७ कुत एतदित्याह । ८ कायें। ९ कार्यकारणभावनियमे न योग्यता कारणं किन्त्वन्यदेव कारणमित्युक्ते आह । १० कार्यम् । ११ कारणात् । १२ भिन्नत्वाविशेषात् । १३ जनैः । १४ नैयायिकस्य । १५ कार्यनियमे । १६ सन्निकण । १७ नियमः। १८ तस्य चक्षुषः । १९ नष्टत्वात् । २० कलशादेः। २१ अन्यथा । २२ एकस्य नाशेऽपरस्योत्पत्तेः। २३ स्फटिकस्फटिकान्तरितार्थयोः। २४ स्कन्धान्तरस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org