________________
१९८
प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि०
;
ननु च नाने: सहकारिणो वा स्वरूपं प्रतिहन्यते, किन्तु स्वभाव एव निवर्त्यते, अतः स्फोटादिकार्यस्यानुत्पत्तिः प्रतिवन्धकमणिमन्त्राद्यभावस्यापि तदुत्पत्तौ सहकारित्वात् तदभावे तदनुत्पत्तेः; इत्यप्यसमीक्षिताभिधानम् उत्तम्भकमणिसन्निधाने ५ कार्यस्यानुत्पत्तिप्रसङ्गात् । न खलु तदा प्रतिबन्धकमण्याद्यभावोस्ति प्रत्यक्ष विरोधात् । ननु यथाग्निः प्रतिबन्धकमण्याद्यभावसहकारी स्फोटादिकार्य करोति, एवं प्रतिबन्धकमण्यादिः उत्तम्भकमण्याद्यभावसहकारी तत्प्रतिबन्धं करोति, अतो न तत्सन्नि धाने कार्यस्यानुत्पत्तिरिति । अस्तु नामैतत् तथापि - प्रतिबन्ध१० कोत्तम्भकमणिमन्त्रयोरभावेऽग्निः स्वकार्य करोति, न वा ? न तावदुत्तरः पक्षः; प्रत्यक्षविरोधात् । प्रथमपक्षे तु कस्याभावः अग्नेः सहकारी - तयोरन्यतरस्य, उभयस्य वा ? न तावदुभयस्य; अन्यतराभावे कार्यानुत्पत्तिप्रसङ्गात् । अन्यतरस्य चेत्किं प्रतिबन्धकस्य, उत्तम्भकस्य वा ? प्रतिबन्धकस्य चेत्; स एवोत्तम्भक मण्यादिस १५ निधाने कार्यानुत्पादप्रसङ्गः तदा तस्याभावाप्रसिद्धेः । उत्तम्भकस्य चेत्; अत्राप्ययमेव दोषः । न चाभावस्य कार्यकारित्वं घटते भावरूपतानुषङ्गीत्, अर्थक्रियाकारित्वलक्षणत्वात्परमार्थसतो लेक्षणान्तराभावात् ।
१४.
कश्वास्याभावः कार्योत्पत्तौ सहकारी स्यात् किमितरेतराभावः, २० प्रागभावो वा स्यात्, प्रध्वंसो वा अभावमात्रं वा ? न तावदितरेतराभावः प्रतिबन्धकमणिमन्त्रादिसन्निधानेप्यस्य सम्भवात् । नापि प्रागभावः; तत्प्रध्वंसोत्तरकालं कार्योत्पत्त्यभावप्रसङ्गात् । नापि प्रध्वंसः प्रतिबन्धकमण्यादिप्रागभावावस्थायां कार्यस्यानुत्पत्तिप्रसङ्गात् । न च भावादर्थान्तरस्याभावस्य सद्भावोस्ति, तैस्यानन्तर२५ मेव निराकरिष्यमाणत्वात् । अतो निराकृतमेतत् - 'यस्यान्वयव्यतिरेको कार्येणानुक्रियेते सोऽभावस्तत्र सहकारी सहकारिणामनिर्यमात्' इति ।
१ प्रतिबन्धकेन । २ स्वस्य प्रतिबन्धकस्य भावः । ३ अभावरूपकारणाभावे । ४ कार्योत्थापक । ५ प्रतिबन्धकमण्याद्यभावस्य सहकारिणोऽभावात् । ६ उत्तम्भकमणिसन्निधानकाले । ७ प्रतिबन्धकाभावे उत्तम्भकसद्भावे चोभयसद्भावे च । ८ उत्तम्भकस्याभावः सहकारी चेदित्यर्थः । ९ उत्तम्भकसद्भावे कार्यानुत्पादप्रसङ्गलक्षणः । १० अभावः कार्यकारी चेत्तहीति शेषः । ११ तदोत्तम्भकस्याभावाविशेषाभावादुतम्भकसद्भावे कार्य न स्याच्च । १२ सत्तासम्बन्धः प्रमाणसम्बन्धो वेत्यादि । १३ प्रतिबन्धकस्य । १४ प्रतिबन्धक उत्तम्भको नेति । १५ तुच्छाभावस्य । १६ सहकारिणो भावा अभावा एव वा भवन्तीति नियमो नास्ति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org