________________
२१४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० प्रध्वंसो नित्यत्वात्, अन्यथार्थान्तरेषु सत्प्रत्ययोत्पत्तिर्न स्यात् । तदन्यत्रापि समानम् , समुत्पन्नैककार्यविशेषणतया ह्यभावस्यामा वेपि न सर्वथाऽभावः भावान्तरेप्यभावप्रतीत्यभावप्रसङ्गात् । यथा चाभावस्य नित्यैकरूपत्वे कार्यस्योत्पत्तिर्न स्यात् तस्य तत्प्र५तिबन्धकत्वात्, तथा सत्ताया नित्यत्वे कार्यप्रध्वंसो न स्यात् तस्यास्तत्प्रतिबन्धकत्वात् । प्रसिद्धं हि प्रध्वंसात्प्राक्प्रध्वंसप्रतिब. न्धकत्वं सत्तायाः, अन्यथा सर्वदा प्रध्वंसप्रसङ्गात् कार्यस्य स्थितिरेव न स्यात् । यदि पुनर्बलवत्प्रध्वंसकारणोपनिपाते कार्यस्य
सत्ता न ध्वंसं प्रतिबध्नाति, ततः पूर्व तु बलवद्विनाशकारणोप१० निपाताभावात्तं प्रतिबध्नात्येवातो न प्रागपि प्रध्वंसप्रसङ्गः इत्ये
तदन्यत्रापि न काकैर्भक्षितम्, अभावोपि हि बलवदुत्पादककारणोपनिपाते कार्यस्योत्पादं सन्नपि न प्रतिरुणद्धि, कार्योत्पादा. त्पूर्व तूत्पादककारणाभावात्तं प्रतिरुणद्ध्येव, अतो न प्रागपि कार्योत्पत्तिप्रसङ्गो येन कार्यस्यानादित्वं स्यात् । १५. तन्न प्रागभावोपि तुच्छस्वभावो घटते किन्तु भावान्तरख.
भावः । यदभावे हि नियमतः कोर्योत्पत्तिः से प्रागभावः, प्रांग. नन्तरपरिणामविशिष्टं मृद्रव्यम् । तुच्छस्वभावत्वे चास्य सव्ये. तरगोविषाणादीनां सहोत्पत्तिनियमवतामुपादानसङ्करप्रसङ्गः प्रागभावाविशेषात् । यत्रं यदा यस्य प्रागभावाभावस्तत्र तदा २० तस्योत्पत्तिरित्यत्ययुक्तम् । तस्यैवानियमात् । खोपादानेतेर
नियमात्तन्नियमप्यन्योन्याश्रयः। .. प्रध्वंसाभावोपि भावस्वभाव एव, यद्भावे हि नियता कार्यस्य
७
..
. १ अभावे । २ प्रागभावस्य । ३ प्रध्वंसात्पूर्व सत्तायाः प्रधंसप्रतिबन्धकत्वं न साथदि । ४ सर्वदा प्रध्वंसप्रसङ्गात्कार्यस्य स्थितिरेव न स्यादेतत्परिहरति परः । ५ कार्यकालादुत्तरेण कालेन । ६ मुद्रादि । ७ विनाशकारणसन्निधानात्पूर्वम् । ८ अभावे । ९ मृत्पिण्डादि । १० प्रागभावः कः भावान्तरं च किमित्युक्ते आह । ११ यस्य मृत्पिण्डस्य । १२ स्वस्य विनाशेन घटरूपेण परिणमते मृत्पिण्डः । १३ मृत्पिण्डलक्षणः। १४ घटोत्पत्तः । १५ स्थासादि । १६ अस्योपादानमेतदस्यैतदिति विवेचयितुमशक्यत्वात्। १७ तुच्छाभावस्य प्रागभावस्यैकत्वात् । १८ उपादानकारणे। १९ कार्यस्य । २० सव्यगोविषाणस्यायं प्रागभावः असव्यस्यायं प्रागभाव इति प्रागभावस्यैव नियमाभावात् । २१ सव्यविषाणकार्य । २२ स्वानुपादान । २३ प्रागभावनियमे । २४ सव्यविषाणस्योपादाननियमे सिद्धे सव्यस्य प्रागभावनियमः सिध्येत् । प्रागभावनियमसिद्धौ च सव्यस्योपादाननियमसिद्धिरिति । २५ उत्तरक्षणवर्तिकपाललक्षणः। २६ यस्य कपालस्य । २७ घटस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org