________________
२२०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० समन्धकारादौ ध्यामलितवृक्षादिवेदनमप्यध्यक्षप्रमाणस्वरूपमेव, संस्थानमात्रे वैशद्यौविसंवादित्वसम्भवात् । विशेषांशाध्यवसायस्त्वनुमानरूपः, लिङ्गप्रतीत्या व्यवहितत्वानाध्यक्षरूपतां प्रतिपद्यते । अतिदूरदेशे हि पूर्व संस्थानमा प्रतिपद्य 'अयमेवंवि५घसंस्थानविशिष्टोर्थो वृक्षो हस्ती पलालकूटादिर्वा एवंविधसंस्थानविशिष्टत्वान्यथानुपपत्तेः' इत्युत्तरकालं विशेषं विवेचयति । तरतमभावेन तत्प्रदेशसन्निधाने तु संस्थानविशेषविशिष्टमेवार्थ वैशद्यतरतमभावेनाध्यक्षत एव प्रतिपद्यते, विशदज्ञानावरणस्य तरतमभावेनैवापगमात् ।। १० ननु च परोक्षेपि स्मृतिप्रत्यभिज्ञादिस्वरूपसंवेदनेऽस्याध्यक्षलक्षणस्य सम्भवादतिव्याप्तिरेव; इत्यप्यपरीक्षिताभिधानम् । तस्य परोक्षत्वासम्भवात् , क्षायोपशमिकसंवेदनानां स्वरूपसंवेदनस्यानिन्द्रियप्रधानतयोत्पत्तेरनिन्द्रियाध्यक्षव्यपदेशसिद्धेः सुखादि
खरूपसंवेदनवत् । बहिरर्थग्रहणापेक्षया हि विज्ञानानां प्रत्यक्षेतर१५व्यपदेशः, तंत्र प्रमाणान्तरव्यवधानाव्यवधानसद्भावेन वैशघेतरसम्भवात्, न तु स्वरूपग्रॅहणापेक्षया, तत्र तदर्भावात् ।
ततो निर्दोषत्वाद्वैशा प्रत्यक्षलक्षणं परीक्षादक्षैरभ्युपगन्तव्यं न . 'इन्द्रियार्थसनिकर्षोत्पन्नम्' [न्यायसू०१४] इत्यादिकं तस्याव्याप
कत्वादतीन्द्रियप्रत्यक्षे सर्वज्ञविज्ञानेऽस्यासत्त्वात् । न च 'तन्नास्ति' २० इत्यभिधातव्यम् प्रमाणतोऽनन्तरमेवास्य प्रसाधयिष्यमाणत्वात्।
तथा सुखादिसंवेदनेप्यस्यासत्वम् । न हीन्द्रियसुखादिसन्निकर्षात्तज्ज्ञानमुत्पद्यते; सुखादेरेव स्वग्रहणात्मकत्वेनोदयादित्युक्तम् । चाक्षुषसंवेदने चास्यासत्त्वम् ; चक्षुषोर्थेन सन्निकर्षाभावात् ।
अथोच्यते-स्पर्शनेन्द्रियादिवञ्चक्षुषोपि प्राप्यकारित्वं प्रमाणा२५त्प्रसाध्यते । तथा हि-प्राप्तार्थप्रकाशकं चक्षुः बाँहोन्द्रियत्वात्स्पर्श
१ अस्पष्ट । २ आकारमात्रे । ३ द्वन्द्वः । ४ उक्तमेव समर्थयन्ति । ५ कर्मणः। ६ अव्यवधानेन प्रतिभासनत्वलक्षणस्य । ७ स्मृत्यादीनाम् । ८ अनिन्द्रियं । (ईष. दिन्द्रियं) मनः। ९ मानसप्रत्यक्षत्वादित्यर्थः। १० एवं चेत्स्मृत्यादीनां परोक्षव्यपदेशो न स्यादित्युक्ते आह । ११ बहिरर्थग्रहणे। १२ अनुमानलक्षणप्रमाणालिङ्गप्रत्यक्षं प्रमाणान्तरम् । १३ स्वसंवेदन। १४ प्रमाणान्तरव्यवधानाभावात् । १५ अन्यायादिदोषत्रयासम्भवो यतः। १६ परोक्तं प्रत्यक्षलक्षणम् । १७ परेण भवता। १८ इन्द्रियार्थसन्निकर्षोत्पन्नमित्यादिकस्य । १९ मनः। २० जैनैः प्रथमपरिच्छेदे। २१ प्रत्यक्षलक्षणस्य । २२ प्राप्यकारि प्राप्य अर्थ जानातीत्यर्थः । २३ नैयायिकेन। २४ इन्द्रियत्वादित्युक्ते मनसा व्यभिचारस्वत्परिहारार्थ बाह्यग्रहणम् । २५ बहिरर्थग्रहणाभिमुखत्वात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org