________________
सू० २/४ ]
चक्षुः सन्निकर्षवादः
२२३
निर्गच्छन्तस्तत्संयोगिनो न सम्बद्धास्तत्प्रकाशको वा न भवन्तीति प्रतीतम् । तथा चाञ्जनादेः प्रत्यक्षत एंव प्रसिद्धेः परोपदेशस्य दर्पणादेव तदर्थस्योपादानमनर्थकमेव स्यात् ।
किञ्च, यदि गोलकान्निःसृत्यार्थेनाभिसम्बद्ध्यार्थं ते प्रकाशयन्ति; तर्हार्थं प्रति गच्छतां तैजसानां रूपस्पर्शविशेषवतां तेषामु- ५ यलम्भः स्यात्, न चैवम्, अतो दृश्यानामनुपलम्भात्तेषामभावः । अथादृश्यास्तेऽनुद्भूतरूपस्पर्शवत्त्वात्; न; अनुद्भूतरूपस्पर्शस्य तेजोद्रव्यस्याप्रतीतेः । जल हे नोर्भासुररूपोष्णस्पर्शयोरनुद्भूतिप्रतीतिरस्तीत्यसम्यक्; उभयानुद्भूते स्तत्राप्यप्रतिपत्तेः । हैंष्टानुसारेण चादृष्टार्थकल्पना, अन्यथातिप्रसङ्गात् । तथाहि - रात्रौ १० दिनकरकराः सन्तोपि नोपलभ्यन्तेऽनुद्भूतरूपस्पर्शत्वाच्चक्षूरश्मिवत् । प्रयोगश्च - मांजरादीनां चक्षुषा रूपदर्शनं वाह्यलोकपूर्वकम् तत्त्वादिवाऽस्मदादीनां तद्दर्शनवत् । ननु मार्जारादीनां चाक्षुषं तेजोस्ति, तत एव तत्सिद्धेः किं बाह्यालोककल्पनयेत्यन्यत्रापि सनम् । ननु यथाँ यद्दृश्यते तथा तत्कल्प्यते, दिवास्मदादीनां १५ चाक्षुषं सौर्य च तेजो विज्ञानकारणं दृश्यते तत्तथैवं कल्प्यते, रात्रौ तु चक्षुषमेव, अतस्तदेव तत्कारणं कल्प्यते । ननु किं मनुष्येषु नायनरश्मीनां दर्शनमस्ति ? अथानुमेयास्ते; तर्हि रात्रौ सौर्यरश्मयोप्यनुमेयाः सन्तु । न च रात्रौ तत्सद्भावे नक्तञ्चराणामिव मनुष्याणामपि रूपदर्शन प्रेसङ्गः ; विचित्रैशक्तित्वाद्भाव- २० नाम् । कथमन्यथोलूकादयो दिवा न पश्यन्ति ? यथा चात्री लोकैः
१ बहिः । २ श्रीखण्डेन । ३ सम्बन्धे सति । ४ अञ्जनादिपरिज्ञानार्थम् । ५ रश्मयः । ६ भासुर । ७ उष्ण । ८ रश्मीनाम् । ९ इति चेन्नेत्यर्थः । १० अप्रतीतिं परिहरति परः । ११ एकस्मिन्नुष्णोदकलक्षणे हेमलक्षणे वा तैजसद्रव्ये । १२ यदैकस्मिंस्तेजोद्रव्ये उभयानुद्भूतिर्न दृष्टा तथापि चक्षूरश्मिषूभयानुद्भूतिः कल्प्यते इत्युक्ते आह । १३ अदृष्टानुसारेणादृष्टार्थंकल्पना यदि स्यात् । १४ रात्रौ । १५ नरनेत्रे । १६ मनुष्याणां चाक्षुषं तेजोस्ति तत एव तत्सिद्धेः किं बाह्यालोककल्पनया | १७ कारणत्वेन । १८ तेजः । १९ कारणत्वेन । २० मार्जारादीनाम् । २१ रूपदर्शनकारणम् । २२ प्रतीतिः । २३ येनैवं परिहारः परेणोच्यते । न सन्तीत्यर्थः । २४ परः । २५ सौर्यरश्मिसद्भावात् । २६ कथं विचित्रशक्तित्वम् ? रात्रौ विद्यमानाः सौर्यरश्मयो नक्तञ्चराणां रूपशानहेतवो न मनुष्याणामिति । २७ सौर्यरश्मी - नाम् । २८ भावानां विचित्रशक्तित्वं न स्याद्यदि । २९ परमते । ३० दिवसे ।
३१ धूकानाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org